SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 324 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः प्रकारेण मत्वा विचार्य, तत्तादृशं शं सौख्यं तदा सिद्धत्वप्राप्तिकाले, अयं प्रभुः शान्तिनाथः, नारकेभ्योऽपि प्रददौ तदानीं नारका अपि मोदमानाः सुखिनो जाता इत्यर्थः // 72 // अथेन्द्रस्य पञ्चभिविलापगर्भ स्तुतिमाह-याते इतियाते षोडशधर्मचक्रिणि महानन्दाभिधाने पुरे, शोकावेशविसंस्थुलोऽपि मघवा तुष्टाव चेत्थं प्रभुम् / संसाराम्बुनिधौ पतन्तमुदयद्-दुःखौघनकाऽऽकुले, तीर्थाधीश्वर ! तारयिष्यति जनं को वा भवन्तं विना // 73 // षोडशधर्मचक्रिणि श्रीशान्तिनाथे महानन्दाभिधाने महानन्दो यस्मिन् तन्नाम्नि पुरे मुक्तिनगरे याते गतवति सति, शोकस्य तोर्थङ्करविरह जनितदुःखस्यावेशेन आवेगेन विसंस्थुलो व्यग्रोऽपि च मघवा शक्र इत्थं वक्ष्यमाणप्रकारेण प्रभुं शान्तिनाथं तुष्टाव, तं स्तुतिप्रकारमेवाह संसारेति तीर्थाधीश्वर ! उदयन्त आविर्भवन्तो दुःखानामोघाः परम्परा एव नका ग्राहास्तैराकुले व्याप्ते, “ग्राहोऽवराहो नक्र" इत्यमरः संसारो दुस्तरत्वादम्बुनिधिः सागरस्तस्मिन्, पतन्तं कर्मवशादागच्छन्तं मजन्तं च जनं प्राणिनम्, भवन्तं त्वां विना को वा तारयिष्यति ! त्वादृशस्य दयालोरन्यस्याऽभावान्न कोऽपि तारयिष्यतीत्यर्थः / परम्परितरूपकम् // 73 // प्रभोर्जगच्चक्षुष्वमाह-पापोलूकेतिपापोलूककुलैकविप्रियविधौ बद्धोद्यमे सर्वदा, निर्वाणामरभूधरेण पिहिते देवे जगच्चक्षुपि / मिथ्यात्वोद्धतपङ्कशोषकरणे त्वय्येव नाथे हहा, लोको लोचनवर्जितः कथमयं भावी भवारण्यगः // 74 // पापान्येवोलुककुलानि तस्यैकोऽसाधारणो यो विप्रियस्य प्रतिकूलतायाः, तदुन्मूलनेन कृत्वेति भावः विधिविधानं करणं तस्मिन् सर्वदा, बद्ध आश्रित उद्यमः प्रयत्नो येन तस्मिन् उद्यते, मिथ्यात्वम् जिनोक्ताऽश्रद्धानमेव दूषकत्वादुद्धतो दुनिः पङ्कः तस्य शोषकरणे नीरसत्वाऽपादाने, मिथ्या त्वनाशने इत्यर्थः जगच्चक्षुषि सूर्यरूपे, पङ्कस्य सूर्ये इव मिथ्यात्वस्य शोषके त्वयि देवे नाथे एव, निर्वाणं मुक्तिरेव तिरोधायकत्वादपरो भूधरोऽस्ताचलस्तेन विहिते तिरोधापिते सति, हहा इति शोकाऽधिक्ये, लोचनवर्जितः नेत्रहीनोऽयं लोकः, भवारण्यगः भवो दुरव ाहत्वादरण्यमिव तत्र गच्छतीति स तादृशः, कथं केन प्रकारेण भावी भविष्यति ?, सूर्यो हि यथा पकं विशोष्य तिमिरनाशनेन कृत्वाऽऽलोककरः, इति अरण्यं सुगं भवति, तथा पापोन्मूलमिथ्यात्वशोषणाभ्यां भवानपीति त्वदभावे भवमतिर्न भविष्यतीत्यर्थः “त्रयीतनुजंगच्चक्षुस्तपनोऽरुणसारथि"रिनि हैमः अत्र निर्वाणामरभूधरेणेति पाठोऽर्थाऽसङ्गत्या हेयः / परम्परितरूपकम् // 74 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy