________________ आश्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम्। 323 तेन योगेन मञ्जु शीघ्रमेव बादरकाययोगं निरुध्य सूक्ष्मकाययोगेन सूक्ष्मौ तकौ तौ वाक्चित्तयोगी, अरुणद् रुणद्धि स्म / तथा, अन्यमुक्ताभ्यां विलक्षणं तृतीयं सूक्ष्मक्रियाख्यम्, दलिततनुवपुर्योगं स्वात्मनैव सूक्ष्मकाययोगनिरोधो यथास्यात्तथा ध्यात्वा,तदनु तत्पश्चात्, उत्सन्ना विनष्टा सर्वा क्रिया यस्मिन् तत्सर्वव्यापारविरतं तुरीयं चतुर्थ समुच्छिन्नक्रियमप्रतिपत्तिशुक्लध्यानं भजति स्म // 7 // श्रीशान्तेः ऋजुगत्या लोकाग्रप्राप्तिमाह-पञ्चेतिपञ्चह स्वस्वरोक्तिक्षणमितिकलिते पूरितेऽस्मिंस्तदानी, प्रक्षीणाशेषकर्मा नवशतयतिभिः सार्धमुच्छिन्नमोहैः / सिद्धानन्ताच्चतुष्कः प्रकृतिसरलताशालिना वर्मना च, निर्लेपालाबुवत् स प्रभुरगमदयं लोकनीराग्रभागम् // 71 // पञ्च च ते हस्वाः स्वराश्चकमात्रिकास्तेषामुक्तावुच्चारणे ये क्षणाः तन्मित्या तन्मानेन कलि ते समन्विते, पञ्चस्वोच्चारणकालतुल्यकाले इत्यर्थः अस्मिन् शुक्लध्याने, परिते समापिते सति, तदानीं शुक्लध्यानाऽवसाने, प्रक्षीणानि निरवशेषाणि जातानि अशेषाणि सकलानि कर्माणि यस्य स तादृशः सर्वकर्मलेशरहितः सन्, सिद्धानन्त ज्ञानानन्तदर्शनानन्ताचारित्रानन्तवीर्यरूपचतुष्कः सोऽयं प्रभुः श्रीशान्तिः उच्छिन्नमोहैः मोहस्य प्राधान्यान्निरस्ताऽशेषकर्ममलैः, नवशतैः यतिभिः सार्धम्, प्रकृत्या स्वभावत एव सरलतया शालते इत्येवंशीलेन. ऋजुनेत्यर्थः वर्मना मार्गेण, ऋजगत्योवं निर्लेपं मृत्तिकादिसम्पर्करहितं यदलाबु तुम्बी तद्वत् अन्तःसारशून्यमलाबु यथा जले तरत्येव न तु मज्जति, तथा कर्मकृतगौरवरहितः श्रीशान्तिप्रभुः लोको नबुडाधारत्वान्नीरं जलमिव, तस्याग्रं परं पारम् सिद्धशिलामित्यर्थः अगमत् / उपमा // 71 // तदानीं नारकाणामपि संजातमित्याह-यदितियन्मानुष्यकजन्मसु प्रतिभवं तुच्छं मया भङ्गुरं, किञ्चित् सौख्यमुदारसारमनसा दत्त जनेभ्योऽधिकम् / तेनैवेदमभङ्गुरं गुरुतरं सारं समासादितं, ___ मत्वैवं प्रददौ तदा प्रभुरयं तन्नारकेभ्योऽपि शम् // 72 // मया शान्तिना, मानुष्यकजन्मसु मनुष्यभवेषु, प्रतिभवम् भवे भवे, तुच्छमल्पं भङ्गुरमचिरस्थायि च, यत् किञ्चित्सौख्यम् उदारेणाकृपणेन सारेण भावशुद्धेन च मनसा लोकेभ्यो दत्तम्, तेन दानेन हेतुना एव, इदं सौख्यं सिद्धत्वरूपमधिकं दत्तापेक्षयाऽतिप्रमाणम् अभङ्गुरं शाश्वतं गुरुतरमुत्कृष्टतरं सारं पारमार्थिकं समासादितम् अल्पस्याऽपि दानस्य फलमनन्तगुणमितिभावः / एवमुक्त