________________ ArAAAAAAAAM आ० श्री विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 321 अथ शान्तेः संमेतशिखरेऽनशनमाह- अष्टोन मिति अष्टोनं तुर्यभागं विगमितवृजिनं स्वायुषः संविहृत्य, ज्ञात्वा निर्वाणकालं नवशतयतिभिः सार्धमुत्सृष्टरागैः। नाथे संमेतभूभृच्छिखरमुपगते मुक्तसर्वाशने च, प्रत्यासन्नावनीशाः प्रविदितकथया शोकनुन्ना इवेयुः // 66 // नाथे प्रभौ श्रीशान्तौ, स्वायुषो निजायुषः अष्टभिर्वपरूनमल्पं तुर्यभागं चतुर्थाश पञ्चविंशतिसहस्रमितं यावत्, विगमितानि देशनादिद्वारा दूरीकृतानि नष्टानि वृजिनानि पापानि श्रोतृणां यथा स्यात्तथा, धर्मदेशनाद्वारा पापोन्मूलनं यथास्यात्तथेत्यर्थः / संविहृत्य विहारं कृत्वा, निर्वाणकालं मुक्तिसमयं ज्ञात्वा, तस्य सर्वज्ञत्वादिति भावः / उत्सृष्टरागैः विरक्तैश्चारित्रवद्भिः नवशतानि च ते यतयश्च तैः नवशतसंख्यसाधुभिः सार्धम् , संमेतश्चासौ भूभृच्च तस्य शिखरम्, संमेताख्यपर्वतशिखरमुपगते प्राप्ते, मुक्तानि सर्वाणि सर्वप्रकाराण्यशनानि भोजनानि येन स तस्मिन् अनशनं प्रपन्ने च सति, प्रत्यासन्नाः संमेतशिखरपार्श्वस्थाश्च ते अवनीशा नृपाश्च ते समीपस्थनृपाः, प्रविदिता ज्ञाता चासौ कथा च तया ज्ञातवृत्तान्तेन कृत्वा, शोकेन नुन्नाः प्रेरिता इव इयुः समागतवन्तः // 66 // : अथ तन्द्रागमनमाह-आयुरिति आयुस्तीर्थेश्वराणामपि भजति तमां नैव यत्र स्थिरत्वं, __तद्योग्य नः कथं स्यादिति कुलिशभृतां पाचलमासनानि / मत्वा तत्कम्पहेतुं सहचरितविदा सर्व एवाऽत्र तूर्ण, संमेताभिख्यशैले सह विवुधगणैरागमन् देवराजः // 67 // . . यत्र यस्मिन् जगति तीर्थेश्वराणाम् तथाऽद्भुताऽतिशयवतां केवलिनां तीर्थकृतामपि आयुः जीवितं नैवं स्थिरत्वमक्षयत्वं भजति तमामुपैति, तदायुः नोऽस्माकं योग्यं स्थिरतरं कथं स्यात् ! नैव स्यादित्यर्थः, इति हेतोः, कुलिशभृतां वज्रधारिणाम्, इन्द्राणामित्यर्थः / आसनानि सिंहासनानि प्राचलन्नकम्पन्त सहचरितया सहजया विदा ज्ञानेन, अवधिज्ञानेनेत्यर्थः / देवानामवधिज्ञानस्य भवप्रत्ययिकत्वेन सहजत्वादितिभावः / तेषामासनानां कम्पहेतुं मत्वा ज्ञात्वा, सर्व एव, न तु कतिपये देवराजः देवेन्द्राः तूर्णं शीघ्रमेव, अत्र अस्मिन् संमेताऽभिख्यशैले संमेतनामपर्वते, विबुधग़णैः देववृन्दैः सह, आगमन् आगतवन्तः // 67 // अथ शान्ते निर्वाणमाह-सेवन्त इतिसेवन्तेऽपि जघन्यतः प्रभुमिमं यत्कोटिसंख्याः सुरा, वैचित्र्येण च निनिमेषनयना रात्रिदिवं मानवाः / शा०४१