________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः / अथ श्रुतज्ञान्यादीनां संख्यामाह-आसन्निति आसन् शान्तेरहतोऽष्टौ शतानि प्रख्यातान्येव श्रुतज्ञानभाजाम् / सीमज्ञानां त्रीण्यभूवन् सहस्राण्येकाधिक्यात् स्वान्तपर्यायिणां च // 62 // शान्तेरहतस्तीर्थङ्करस्य श्रुतज्ञानभानां श्रुतकेवलीनां चतुर्दशपूर्विणां प्रख्यातानि प्रसिद्धान्येव, अष्टौ शतानि आसन् तथा सीमज्ञानां अवधिज्ञानिनां त्रीणि सहस्राण्यभूवन, स्वान्तपर्यायिणां मनःपर्यायज्ञानिनां मुनीनां च एकाधिक्यात् एकाधिकानि त्रीणि सहस्राणि चत्वारि सहस्राणि, अभूवन्निति सम्बध्यते // 62 // अथ केवल्यादीनां सङ्ख्यामाह-चत्वारीति चत्वारि केवलविदामभवन् सहस्राण्युत्कर्षतः समधिकानि शतत्रयेण / उद्दामवैक्रियविभूतिभृतां मुनीनां षष्टिः शतानि विमलपतिपत्तिमाजाम् // 6 // केवलविदां केवलज्ञानीनामुत्कर्षतः शतत्रयेण समधिकानि चत्वारि सहस्राण्यभवन् / तथा विमला शुद्धा सम्यक्त्ववती या प्रतिपत्तिः ज्ञानं तद्भाजां तद्वताम्, उद्दाम यथेच्छं नानाविध वैक्रियरूपनिर्मितो समर्था या वैक्रियविभूतिः वैक्रियलब्धिः तद्वतो तभृतां मुनीनां षष्टिः शतानि षट्सहस्राणि, अभवन्निति सम्बध्यते // 63 // अथ वाद्यादिसङ्ख्यामाह-अष्टाविति अष्टौ शतानि गुणितानि विभोस्त्रयेण सद्वादिनां परपराजयदीक्षितानाम् / लक्षत्रयी दशसहस्रविनाकृताऽभूत् श्राद्धवजस्य जिनधर्मपरायणस्य // 6 // विभोः प्रभोः शान्तेः, परेषां परवादिनां पराजयेषु दीक्षितानां गृहीतवतानाम् परवादिपराजेतृणां सद्वादिनां वादिवराणां त्रयेण त्रिसङ्ख्यया गुणितानि अष्टौ शतानि, चतुःशताधिकद्विसहस्राणीत्यर्थः / अभवन्निति शेषः / यथा, जिनधर्मपरायणस्य जिनोक्तधर्मेकतानस्य भक्ति मतः श्राद्धवजस्य श्रावकसमूहस्य दशसहस्रविनाकृता दशसहस्रन्यूना लक्षत्रयी नवति सहस्राधिकालक्षद्वयी अभूत् // 6 // अथ श्राविकासङ्ख्यामाह-चत्वारीति चत्वारि लक्षाणि विभोरुपासिका न्यूनाः सहस्रैः परमेव सप्तभिः। पादाम्बुजैः पावयतो धरां शरल्लक्षायुषस्यैष परः परिच्छदः // 65 // विभोः शान्तेः उपासिकाः भक्तिमत्यः श्राविकाः, परमुत्कर्षतः सप्तभिः सहस्रैः न्यूना एव चत्वारि लक्षाणि, लक्षत्रयं त्रिनवतिसहस्राणि चेत्यर्थः, पादाम्बुजैः चरणकमलैः धरां पृथिवीं पावयतः पवित्रयतः विहारक्रमेणेत्यर्थः / विभोः शरदां वर्षाणां लक्षमायुः सर्वमायुः यस्य स तस्य अनूनलक्षवर्षायुष्कस्य एष उक्तः सर्वः परः उत्कर्षतः परिच्छदः परिजनः, आसीदिति शेषः // 65 //