________________ NARAMAnnnwww आ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ सूर्योदयमाह-ईगिति ईदृक् चित्रं तत्र सङ्गीतमासीत् स्वाराट् चक्षुर्वृत्तिसंस्तम्भहेतुः / भास्वान् द्रष्टुं यद् ध्रुवं द्वादशात्मभावं श्रित्वा पूर्वशैलं बभाज // 58 // ईटावर्णितप्रकारम् , चित्रं नानाविधमाश्चर्यकरं वा, स्वाराज इन्द्रस्य चक्षुषो वृत्तेः चक्षुर्व्यापापारस्य संस्तम्भहेतुः एकत्र निरन्तरलग्नत्वप्रयोजकम् सङ्गीतमासीत् / ध्रुवमित्युप्रेक्षायाम् / यत्सङ्गीतं द्रष्टुमिव, भास्वान् सूर्यः द्वादशात्मभावं द्वादृशरूपत्वं श्रित्वा, पुराणे सूर्यस्य द्वादशात्मत्वं वर्णितम्, तच्चाऽत्र नृत्यावलोकननिमित्ततयोत्प्रेक्षितम् / पूर्वशैलमुदयाचलं बभाज शिश्राय / आगतवानित्यर्थः // 58 // अथ तीर्थकृतो देवादीनां च ततः प्रस्थानमाह-देवैरिति देवैः सांध देवतानामधीशः पातनत्वा सोऽग्रिमं षोडशं च / तीर्थाधीशं साधयन्तं विहारं सौधर्माख्यं स्वं विमानं प्रपेदे // 59 // स देवतानामधीशः शक्रः, देवैः सार्धम, प्रातः प्रभाते, अग्रिममादिनाथम्, विहारं साथयन्तं विहरन्तं षोडशं शान्ति च तीर्थाधीशं तीर्थङ्करम् नत्वा सौधर्माख्यं स्वं विमानं प्रपेदे प्राप्तः।।५९॥ .. अथ शान्त्याज्ञाकारिसाधुसंख्यामाह-शान्तेरिति-- शांतेरेकत्रिंशदासन् सहस्राण्याज्ञासाराः साधवस्ते द्विरुक्ताः / ... आरभ्याऽऽनि यैः समं पञ्चवाणस्त्रस्तो भग्नस्त्यक्तकोदण्डकाण्डः // 6 // शान्तेः तीर्थङ्करस्य एकत्रिंशत्सहस्राणि द्विरुक्ताः / द्विगुणितानि, द्वाषष्टिसहस्राणीत्यर्थः / आज्ञा शान्तिनाथनिर्देश एव सारः प्रधानं येषां ते तादृशाः आज्ञावशवर्तिनः ते प्रसिद्धाः साधवः आसन्, यैः साधुभिः समं सह आणि युद्धमारभ्य पञ्चवाणः कामः त्रस्तो भीतः, पराभवभयादिति भावः / त्यक्तं कोदण्डस्य धनुषः काण्डं यष्टिर्येन स तादृशः त्यक्तधन्वा सन् भग्नः पलायितः ते सर्वे साधवः कामाद्यान्तरारिविजेतार आसन्निति भावः // 60 // अथ साध्वीनां सङ्ख्यामाह-तावदिति.. तावन्माना एव साध्योऽपि शान्तेः किन्तु न्यूनास्ताश्चतुर्भिः शनैश्च / . न्यूनत्वं वा युक्तमेतन्मुनिभ्यः साध्वीनामप्युग्रचारित्रवत्त्वे // 61 // ___ शान्तेस्तीर्थङ्करस्य साध्व्योऽपि, अपिना साधुसमुच्चयः / तावन्मानाः साधुसमसङ्ख्या एव, किन्तु ताः साध्व्यः, चतुर्भिः शतैश्च न्यूना न्यूनसङ्ख्या षड्शताधिकानि एकपष्टिसहस्राणीत्यर्थः / तासां न्यूनत्वं समर्थयति-न्यूनत्वमिति मुनिभ्यो मुनीनपेक्ष्य साध्वीनाम् उग्रचारित्रवत्त्वेऽपि चारित्रस्योगपालनीयत्वेऽपि, मुन्यपेक्षया साध्वीनां चारित्रपालनमिति दुष्करमित्यतो हेतोः तासाम्, तन्न्यूनत्वं युक्तमेव, वा एवकारार्थः / दुष्करे हि अल्पा एव प्रवर्त्तन्ते इति भावः // 61 //