________________ 318 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः / रम्भायाः नृत्यस्य आलोकेन दर्शनेन कृत्वा हृष्टैः तुष्टैरपि सुरेन्द्रैः दानशौण्डैः प्रकृष्टदातृभिः सद्भिरपि किञ्चितिकमपि द्रव्यादि पारितोषिकं, न दत्तम् / कुत इत्याह-यस्माद् ईदृशोऽन्यसाधारणाद् भावान्मनःसमाधेः नृत्यकर्तुः नर्तकस्य फलानि दातुं देवदेवस्तीर्थङ्कर एव समर्थः, नाऽन्यः / महद्भिः साध्येऽपत्य प्रवृत्तिरनुचितेति भावः / भावेन हि तन्नृत्य, न तु पारितोषिकलोभेनेति यावत् // 54 // सङ्गीते सर्वेषामेकतानत्वमाह-रम्भेति-- रम्भानृत्येऽखर्वगन्धर्वगीते तीर्थेशाग्रे दत्तचित्तेषु तेषु / किं ध्यानस्थाश्चित्रिताः स्तम्भिताः स्विदित्यभ्यहं तत्र कश्चिन्न चक्रे ? // 55 // तीर्थशाऽग्रे अखवं महत् गन्धर्वाणां तदाख्यदेवानां गीतं यस्मिन् तादृशे गन्धर्वकृतोत्तमगीतसहिते रम्भाया नृत्ये, तेषु देवेषु दत्तचित्तेषु तदेकतानेषु सत्सु, तत्र, किम्, इमे ध्यानस्थाः, समाधिस्थाः, चित्रिताः चित्रमयाः, स्तम्मिताः मन्त्रादिभिः कृतस्तम्भाः, वा, स्विदिति वाऽर्थे / इतीत्थमभ्यूहं वितर्कम्, कश्चित् को नाम न चक्रे ? अपि तु सर्व एव चक्रे इत्यर्थः / देवा नृत्यैकतानतया बहिश्चेष्टाविरहिता ध्यानस्थादय इव जाता इति भावः // 55 / / अथ तत्र देवकृतमृदङ्गवादनमाह -देवैरिति-. देवैस्तत्राऽवादि पूर्व मृदङ्गो यद् रम्भायां नर्तनाभ्युद्यतायाम् / नृत्यारम्भेऽभ्युत्सवे चाऽपि तेन पूर्वे जज्ञे तस्य लोके प्रवृत्तिः // 56 // तत्र रम्भायां नर्तनाऽभ्युद्यतायां सत्याम् पूर्व नर्तनकाले नर्तनाऽऽरम्भात् प्रागेव यद् यस्माद्, देवैर्मृदङ्गस्तदाख्यो वाद्यविशेषोऽवादि, तेन हेतुना लोके नृत्याऽऽरम्भे अभ्युत्सवे चाऽपि पूर्व तस्य मृदङ्गवादनस्य प्रवृत्तिविधानं जज्ञे जाता। तत्र पूर्व मृदङ्गवादनाल्लोका अपि गतानुगतिकतया तदनुसारेण नृत्यादौ पूर्व मृदङ्गं वादयन्तीत्यर्थः अत्र सम्बन्धे सम्बन्धोक्तयाऽतिशयोक्तिरलङ्कारः // 56 // अथ तत्र भेरीवादनमाह-स्वर्गेति-- स्वर्गस्थानां देवतासंहतीनां भोगाऽऽसक्त्यावस्थितौ वञ्चितानाम् / / आहानायेवात्र भाङ्कारनादैर्भेरी देवैस्तत्क्षणं वाद्यते स्म // 57 / / स्वर्गीयभोगाऽऽसक्तया भोगसंलग्नतया, अत्र तीर्थेऽवस्थितौ नृत्यकालेऽवस्थाने वञ्चितानां छलितानाम्, स्वर्गीयभोगाऽऽसक्ततया अत्राऽनागतामित्यर्थः / अत एव, स्वर्गस्थानां, न त्वेतत्तीर्थस्थानां देवतासंहतीनां देववृन्दानाम्, भाङ्कारनादैः भेरीजन्यशब्दविशेषैः कृत्वा आह्वानाय इव तत्क्षणं तस्मिन् काले देवैः भेरी तदाख्यवाद्यविशेषो वाद्यते स्म / उत्प्रेक्षा // 57 //