________________ 327 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रसेवकं हृदन्तः वक्षोमध्ये विन्यस्य कृत्वा वीणामवीवदत् वादयति स्म, वीणां हि हृदये स्थापयित्वा वादगन्तीत्येव मुक्तिरिति भावः // 50 // अथ तत्र गीतस्य माधुर्यमाह -गीतमिति गीतं गीतं तत्र तत् कैश्चनाऽपि शक्राज्ञप्तैर्भावनाभव्यबोधैः / यत् पीयूषं मन्यमानैरमानि देवैः स्वर्गे केवलं वञ्चनैव // 51 // 'तत्र शक्रेणाऽऽज्ञप्तैरादिष्टैः, भावनायाः मनोवृत्तेभव्यो वो बोधः उन्मेषो येषां ते तादृशास्तैः भावितात्मभिः, कैश्चनाऽपि तत्तादृशं गीतं गानं गीतमुद्गीतम्, “गीतं गानमिमे समे" इत्यमरः / यद् गीतं पीयूषममृतं मन्यमानैः देवैः, स्वर्गे वञ्चना एव केवलममृतम्, न तु वास्तविकमित्येवममानि मेने / अमृतादप्यधिकं तृप्तिजनकं तद्गीतमिति भावः / अत्रोपमेयस्य गीतस्योपमानादमृतादधिक्यवर्णनाद् व्यतिरेकोऽलङ्कारः // 51 // तन्नृत्येण शकतोषमाह-रम्भेति रम्भानृत्यं चारु नानाऽभिनीत्या युक्तं पश्यल्लोचनानां सहस्रम् / मेने शक्रः स्वं कृतार्थ तदानीमैश्वर्य वाऽऽलोकयन् स्वस्य भक्तिम् // 52 // स्वस्य निजस्य भक्तिं सङ्गीतारम्भद्वाराऽऽसक्तिम्, आलोकयन् प्रदर्शयन् शक्रः, नानाऽभिनीत्या विविधाऽभिनयेन युक्तम्, अत एव, चारु उत्तमं रम्भानृत्यं पश्यन् , तदानीं नृत्यविलोकनकाले स्वं लोचनानां सहस्रम्, ऐश्वयं वा कृतार्थम् सफलं मेने / लोचनसहजैश्वर्याभावे कुत एतादृशनृत्यावलोकनमिति तत्सार्थकमित्येवं मन्यते स्मेत्यर्थः // 52 // __ अथ तन्नृत्येन देवानां तोषमाह-प्राशंसीति..... पाशंसि स्वं निनिमेषेक्षणत्वं संपश्यदभिनृत्यमेकाग्रचित्तैः / गीर्वाणानां मण्डलैस्तत्र किञ्च विघ्नाभावोऽबोधि जन्मान्तरेऽपि // 53 // तत्र एकाग्रचित्तैः तदेकतानैः नृत्यं संपश्यद्भिरवलोकमानैः गीर्वाणानां देवानां मण्डलैः समूहैः, स्वं निजं निर्निमेषे निमेषरहिते ईक्षणे नेत्रे यस्य स तस्य भावः / तत्, प्राशंसि बहुमेने, निमेषेण हि अन्तरा दर्शनविघ्नसम्भवादिति भावः / किञ्च जन्मान्तरेऽन्यजन्मनि विघ्नाऽभावः एतादृशनृत्यदर्शनावरोधकान्तराय कर्माभावः, अबोधि अज्ञायि / पूर्वकृतविघ्नसत्त्वे एतादृशनृत्यदर्शनाऽसम्भवात् / पुण्येनैवैतत्सम्भवादिति भावः // 53 // अथेन्द्रकृतकिञ्चिदानाऽभावं समर्थयति-रम्भेति रम्भानृत्यालोकहृष्टैः सुरेन्द्रर्दत्तं किञ्चिद् दानशौण्डैर्न चापि / ईदृग्भावाद् नृत्यकर्तुः फलानि यस्माद् दातुं देवदेवः समर्थः // 54 //