________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः तथा, यत्र वा वर्णनीया देवी रम्भा नर्तकी, तत्सङ्गीतं लोकोत्तरमलौकिकं किं न स्यात् ? अपि तु भवेदेव / अलौकिकसमाजे कार्यस्याऽप्यलौकित्वमुचितमेवेति भावः // 46 // अथ तत्र रम्भाया नृत्यमाह-रम्मेति रम्भा नृत्यं कुर्वती तत्र सारं पाणी पादौ लक्षयन्तीव रेजे / तीर्थाधीशस्याऽऽदिदेवस्य चाग्रे ज्ञाता यस्मादेष सामुद्रकस्य // 47 // तत्र तत्तीर्थे तीर्थाधीशस्याऽऽदिदेवस्याग्रे, चः पूर्वोक्तसमुच्चायकः सारं श्रेष्ठं नृत्यं कुर्वती पाणी हस्तौ पादौ चरणौ लक्षयन्ती दर्शयन्ती इव रेजे बभौ लक्षणे हेतुमाह यस्माद् हेतोः, एष आदिनाथः सामुद्रकस्य सामुद्रिकलक्षणस्य ज्ञाता सामुद्रिकस्याऽये हि जनाः स्वशुभाशुभज्ञानाय हस्तौ पादौ च प्रदर्शयन्तीत्येवमुक्तिः / विशिष्टनृत्ये हि नर्तकस्य हस्ततलं पादतलं च दृश्यं जायते इति तदुक्तया नृत्यवैशिष्टयमुच्यते इति भावः // 47 // अथ तत्र कस्याश्चिद्वंशवादनं वर्णयति-वंशेति वंशख्याति न्यथा मे भवित्रीत्येवं चित्ते संविमृश्यैव तत्र / जम्भारातेः कौशलं वेदयन्ती देवी काचिद् वादयामास वंशम् // 48 // तत्र आदीश्वरस्याऽग्रे काचिद्देवी, मे मम अन्यथा प्रकारान्तरेण वंशस्य कुलस्य ख्यातिः प्रसिद्धिर्न भवित्री भाविनी इत्येवं चित्ते संविमृश्यैव सम्यग्विचार्य इव, जम्भारातेः इन्द्रस्य कौशलं नैपुण्यं वेदयन्ती ज्ञापयन्ती वंशं तदाख्यवाद्यं वादयामास / उत्प्रेक्षा // 49 // अथ तत्र रम्भाया मन्दनृत्यमाह-कम्पमिति कम्पं प्राप्ता दर्दरैः पादजातैमत्कैः शैलः पुण्डरीकः स चैषः / इत्थं चित्त संविचिन्त्यैव रम्भा मन्दं मन्दं लीलया नृत्यति स्म // 49 // मत्कैः मामकैः पादजातैः पादप्रक्षेपजैः, दर्दरैः तदाऽऽख्यवाद्यशब्दैः च, स एष पुण्डरीकः शैलः कम्पं कम्पनं प्राप्ता प्राप्स्यति, बलवान् पादाघातो महान् शब्दश्च दृढस्याऽपि कम्पाय जायत इति भावः इत्थं चित्ते संविचिन्त्य इव रम्भा तदाख्या देवी लीलया लोकरंजनं यथा स्यात्तथा मन्दं मन्दं नृत्यति स्म // 49 // अथ कस्याश्चिद्वीणावादनमाह-वक्षोजाभ्यामिति वक्षोजाभ्यां मामकाभ्यां विशालमेतत् किञ्चित् कि समं वा समस्ति ? / एवं ज्ञातुं तत्र तुम्बं हृदन्तर्विन्यस्यैवाऽवीदत् काऽपि वीणाम् // 50 // मामकाभ्यां वक्षोजाभ्यां स्तनाभ्याम्, एतत्तुम्बं, किम् किञ्चिद्विशालमुरु, वा अथवा समं तुल्यप्रमाणम् समस्ति संभवति / एवं स्तनतुम्बतारतम्यं ज्ञातुमिव, काऽपि देवी, तत्र नृत्यस्थाने, तुम्बं