SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 315 देवी रम्भा मुख्या यासु ताभिरुच्चाभिःरुत्कृष्टाभिरप्सरोभिः सह कृत्वा, सङ्गीतस्यारम्भमाधत्त कृतवान् // 43 // तत्र सङ्गीतेन दुःखनाशमाह-चातुर्विध्येति-- चातुर्विध्याप्तप्रसिद्ध ततादि-वादित्रेऽस्मिन्नातते तत्र चित्रम् / मग्नं चातुर्गत्यसंभूतदुःखं, कर्तृश्रोतृद्रष्टवर्गस्य भावात् // 44 // - तत्र तत्तीर्थेऽस्मिन् प्रस्तुते सङ्गीते, चातुर्विध्यं चतुर्मेदतामातं च तत्प्रसिद्धं च तस्मिन् , तताऽऽनद्धसुषिरघनभेदाच्चतुर्विधे ततादिवादित्रे ततप्रभृत्यातोये, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् / कंसादिकं तु सुषिरं कांस्यातालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्राऽऽतोधनामकमि"त्यमरः आतते, वादिते सति, कर्तृणां सङ्गीतप्रवर्तकानाम्, श्रोतृणाम् द्रष्टणाम् च वर्गस्य समूहस्य, भावाद् तेन सङ्गीतेन भावशुद्धेः हेतोः, चातुर्गत्ये नरकदेवमनुष्यतिर्यग्गतिषु सम्भूतमुत्पन्नं दुःखं तापो भग्नं नष्टम् चित्रम्-सङ्गीतादपि तथाविधदुःखनाश इत्याश्चर्यमिति भावः / सङ्गीतस्य सद्यः प्रभावजनकत्वमिति यावत् // 44 // तत्र सर्वे सङ्गीतकताना जाता इत्याह-भ्राद्रेति-- भाद्राम्भोदोद्दामनिर्घोषजैत्रे स्फूर्जत्यस्मिन् पञ्चशब्दोत्थशब्दे / किं तत्स्थानां पञ्चशब्दादयोऽमी दूरीभूता गोचराः साभ्यसूयाः // 45 // भाद्रे तदाख्यमासे अम्भोदानां मेघानामुदाम्नोऽत्युत्कटस्य निर्घोषस्य गर्जितस्य जैत्रे जयनशीलेऽस्मिन् सङ्गीतजन्ये प्रस्तुते, पञ्चशब्देभ्यः वादित्राणां चतुर्विधानां चत्वारो गायकस्य च पञ्चम इत्येवं पञ्चभ्यः शब्देभ्यः उत्तिष्ठति जायते इति स तस्मिन् पञ्चशब्दोत्थे शब्दे तुमुलध्वनौ स्फूर्जति सोत्कर्ष प्रस ति सति, तत्स्थानां सङ्गीतस्थलस्थितानाम्, अमी प्रसिद्धाः सदा सन्निहिताः शब्दादयः, शब्दगन्धरूपरसस्पर्शाः पञ्च गोचरा विषयाः, साभ्यसूयाः सेाः सन्तः, दूरीभूताः किम् ?, सङ्गीतादिशब्देन बलवता विरोधिना पराभूताः क्वापि पलायिता इत्यर्थः / लोकानां सङ्गीतैकतानत्वात् शब्दादिबहिर्विषयसम्पको नष्ट इति शब्दादयः उपेक्षामसहमाना इव दूरीभूता इति वचनरचनेति भावः // 45 // अथ तत्सङ्गीतस्य लोकोत्तरत्वमाह-द्रष्टेति-- द्रष्टा साक्षादादिमो यत्र चाईन् सङ्गीतस्यारम्भको यत्र शक्रः / देवी वर्ष्या नर्तकी यत्र रम्भा तत् सङ्गीतं किं न लोकोत्तरं स्यात् ! // 46 // यत्र सङ्गीते स्थले वा, साक्षात् प्रतिमारूपेण प्रत्यक्ष आदिमः प्रथमः अर्हन् श्रीऋषभनाथो द्रष्टा, प्रभोर्बिम्बस्य पुरतः सङ्गीतारम्भात्तथोपचारः / न तु स प्रभुः श्रोताऽपि, इन्द्रियव्यापारोपमात् केवलज्ञानेन तत्र द्रष्टत्वस्यैव सम्भवादिति भावः / यत्र च सङ्गीतस्य आरम्भकः प्रवर्त्तयिता शक्रः,
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy