________________ 314 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः लोकाग्रप्रापणकृतो महानुत्कर्षोऽस्य पर्वतस्येत्याह-बूम इति-- ब्रूमः किञ्चोच्चैस्तमत्वं तदस्य, येन श्रीमन्नाभिभूमीन्द्रसूनोः / - अध्यारुदैवाऽत्र लोकाग्रमय्यं, पौत्र्यैरप्याच्यायि सर्वैः करे स्वे॥४०॥ / किञ्चाऽन्यच्च अस्य शत्रुञ्जयाद्रेः, तल्लोकोत्तरम् उच्चैस्तमत्वमुत्कृष्टतमत्वम्, महोत्कर्षमित्यर्थः / श्रूमः, येन उत्कर्षप्रभावेण, श्रीमन्नाभिभूमीन्द्रस्य सूनोऋषभनाथस्य सर्वैः अपि पौत्रैः, न तु कतिपयैरेवेति भावः / अध्यारुह्य आरोहणेन कृत्वाऽधिष्ठाय, अत्र शत्रुञ्जयाऽद्रावेव स्वे करे हस्ते, अग्र्यं श्रेष्ठं वर्णनीयं लोकाग्रं सिद्धशीलारूपं लोकशिरःस्थं स्थानम्, आध्यायि प्रापि, स्वकरस्थवल्लोकाग्रं प्राप्तमित्यर्थः / अधिपूर्वकादिण धातोरद्यतन्यां रूपमिदम् // 40 // अथाऽस्याऽद्रेस्तारकत्वं मोहनाशकत्वञ्चाऽऽह-संसारेति संसाराम्भोराशिमज्जज्जनानां, निस्तारायाऽऽबद्धकक्षं तदेतत। .. तीर्थ दृप्यन्मोहराजस्य सैन्यं, रोद्धं शक्तं शक्तितो दुर्जयस्य // 41 // तत्तस्मादुक्तोत्कर्षादिहेतोः, एतद्वर्ण्यमानं तीर्थ सिद्धिक्षेत्रम् संसार एव दुस्तरत्वादम्भोराशिः सागरस्तत्र मज्जतां बुडतां भ्रमतामित्यर्थः, जनानां निस्तारायोद्धाराय, भवच्छिदे इत्यर्थः / आबद्धा कक्षा येन तत्तादृशं बद्धकक्षपरिकरं तत्, शक्तितो बलादिभिर्दुर्जयस्य जेतुमशक्यस्य, बलिनोऽपि मोहसद्भावादिति भावः / दृप्यतो विजृम्भमाणस्य मोहो राजेव तस्य सैन्यं क्रोधादिकं बलं "बलं सैन्य" मित्यमरः रोद्धं निवारयितुं शक्तं समर्थम्, मोहरोधे हि भवनिस्तारः सुकरः / अत्राऽऽगमनमात्रेणैतत्तीर्थमाहात्म्यान्मोहो नश्यति, तथा च भवोच्छेदो जायते इति महामहिमेदं तीर्थमिति भावः // 41 // अथोपसंहरन् शान्तेविश्राममाह-श्रुत्वेति-- श्रुत्वा वाक्यं तद् यथार्थ बिडौजास्तीर्थाधीशं भक्तिमानाननाम / स्वच्छन्दश्रीदेवदेवोऽपि शान्तिर्देवच्छन्दे तत्र विश्राम्यति स्म // 42 // बिडोजाः इन्द्रः तत्तीर्थकृदुक्तं यथार्थं वाक्यं श्रुत्वा भक्तिमान् सन् तीर्थाधीशं शान्ति तत्तीर्थाधीशमादीश्वरं वा, आननाम प्रणतवान् / स्वच्छन्दा स्वाधीना श्रीर्यस्य स स्वच्छन्दश्रीदेवदेवः शान्तिरपि देवच्छन्दे तदाख्यासने तत्र समवसरणान्तर्गते, विश्राम्यति स्म विश्रामं कृतवान् / / 42 // अथ रात्रौ यत्र सङ्गीताऽऽरम्भमाह-तम्यामिति-- तम्यां यातेष्वेव मर्येषु सत्सु, श्रीनाभेयस्याहतोऽसौ पुरस्तात् / सङ्गीतस्यारम्भमाधत्त देवीरम्भामुख्योच्चाऽप्सरोभिः सुरेन्द्रः // 43 // तम्यां रजन्यां "रजनी यामिनी तमी" इत्यमरः मर्येषु जनेषु यातेषु गतेषु सत्सु एव, असौ सुरेन्द्रः श्रीनाभेयस्य श्रीनाभिपुत्रस्य ऋषभनाथस्य पुरस्तादग्रतः, ऋषमप्रभोर्मन्दिरे इति भावः