________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 313 अथ सिद्धिक्षेत्रेति नामहेतुमाह- भव्योत्तापेति-- भव्योत्तापोज्जासने पुण्डरीकं संपाप्ताऽन्वग यन्मुनि पुण्डरीकम् / अस्मिन् सिद्धिं कोटिकोटिर्मुनीनां सिद्धिक्षेत्रं कीर्त्यते तेन चैतत् // 37 // यद्यस्माद् अस्मिन् प्रस्तुतेऽद्रौ, भव्यानामुत्तापानां दुःखानां तापानामिवोजासने विनाशने पुण्डरीकं कमलतुल्यम् , तापाऽपनोदाय जनैरङ्गेषु कमलनालादिधारणादिति भावः, मुनिं पुण्डरीकं तदाख्यमन्वगनुसृता मुनीनां कोटिकोटिः कोटिशो मुनयः सिद्धि मुक्ति संप्राप्ता सिद्धाः तेन हेतुना, एतत्प्रस्तुतं तीर्थम् , सिद्धिक्षेत्रम् सिद्धेः मुक्तेः क्षेत्रं स्थानमित्यन्वर्थसंज्ञया कीर्त्यते कथ्यते गीयते वा / नत्वेतन्नाममात्रमिति भावः // 37 // अथ तत्र भरतचक्रवर्तिकृतमूर्तिस्थापनमाह-वक्त्रेति-- वक्त्राम्भोजादादितीर्थङ्करस्य श्रुत्वैतस्याऽप्यद्भुतं स प्रभावम् / अत्रैत्याऽद्यः सार्वभौमः सुरत्नचैत्ये मूर्ती पुत्रपित्रोन्य॑धत्त // 38 // आदितीर्थङ्करस्य ऋषभाख्यतीर्थङ्करस्य वक्त्रं मुखमम्भोजमिव तस्मात्मुखकमलासकाशादेतस्य शत्रुञ्जयाऽदेरद्भुतमपूर्वं प्रभावं महिमानं श्रुत्वाऽपि श्रुत्वैव श्रवणमात्रत एव, स आद्यः प्रथमः सार्वभौमः सर्वभूमेरीश्वरः, चक्रवर्तीति यावत् / भरतः, अत्र शत्रुञ्जयाऽद्रौ, एत्याऽऽगत्य, सुरत्नचैत्ये उत्तमै रत्नैः कृते चैत्ये पुत्रपित्रोंः पुत्रस्य पितुश्च पुण्डरीकगणधरस्य ऋषभप्रभोश्च मूर्ती बिम्बे न्यधत्त प्रतिष्ठापितवान // 38 // . अथ शत्रुञ्जयाऽद्रेर्माहात्म्यप्रकर्षाय तत्र एष इति-- एष स्पृष्टश्चाग्रिमैस्तीर्थनाथैरेकन्यनैश्चन्द्रभागप्रमाणैः / स्पक्ष्यन्त्येनं नेमिवर्ज जिनेन्द्राः सप्ताऽन्येऽपि प्राप्तविज्ञानतत्त्वाः // 39 // एष शत्रुञ्जयाऽद्रिः, च पूर्वोक्तसमुच्चायकः। एकेनैकसंख्यया कृत्वा न्यूनरल्पैः, चन्द्रस्य भागाः कलाः, तत्प्रमाणैः तन्मात्रैः, पञ्चदशभिरित्यर्थः / चन्द्रस्य षोडशकलात्वादिति भावः / “कलातु षोडशो भाग" इत्यमरः / शान्तिनाथप्रभोः अग्रिमैः पुरातनैः, तीर्थनाथैः, स्पृष्टः कृतस्पर्शः / वृषभनाथादिधर्मनाथाः प्राचीनाः पञ्चदशतीर्थनाथा अत्राऽऽगता इत्यर्थः / तथा, नेमिवर्ज नेमिनाथं विहाय अन्ये शान्तिनाथप्रभोः पश्चाद्भाविनोऽपि सप्त,प्राप्त विज्ञानस्य तत्त्वं सारो यैस्ते तादृशाः केवलज्ञानवन्तो जिनेन्द्रास्तीर्थङ्कराः, एनं पर्वतं स्प्रक्ष्यन्ति, निजाऽऽगमनेन कृत्वेति भावः शान्तिनाथप्रभुणा तु तदानीमेव स्पृष्ट इति त्रयोविंशतिजिनैरयं शत्रुञ्जयाऽदि स्पृष्ट इति सिद्धम्, तादृशां स्पर्शोऽपि प्रचुरपुण्यलभ्यो माहात्म्योन्नायकश्चेत्ययमद्रिः पुण्यतमो महामहिमा चेति यावत् // 39 // शा. 40