________________ 312 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। ख्यस्याद्रेरपीड्यः स्तुत्यः, माहात्म्याधिक्यादिति भावः / अयं शत्रुञ्जयः, पूर्वतीर्थः तीर्थेषु पूर्वः प्रथमोऽप्रणीः स तथा ख्यातः प्रसिद्धः आसीदिति शेषः / ख्यातमिति पाठ स्वीकारे तु-अयं शुभावहम् , “अयः शुभावहो विधिरि"त्यमरः / ईडयं पूर्वतीर्थं ख्यातमित्येवमों बोध्यः // 33 // माद्यदिति माद्यन्मोहेभच्छिदा पुण्डरीकसङ्काशश्रीपुण्डरीकस्य साधोः / तीर्थाधीशेनादिमेनाऽमरेन्द्र ! सिद्धिक्षेत्रं नन्विदं प्रत्यपादि // 34 // अमरेन्द्र ! तीर्थाधीशेन आदिमेन प्रथमेन, ऋषभनाथेनेत्यर्थः / नन्वित्यैतिह्ये, विस्मये वा, माद्यतो विज़म्भमाणस्य मोहेभस्य मोहगजस्य छिदायां नाशने पुण्डरीकसङ्काशस्य सिंहसदृशस्य श्रीपुण्डरीकस्य तदाख्यस्य साधोर्मुनेः 'शेषे षष्ठी' पुण्डरीकसाधुमुद्दिश्येत्यर्थः / इदं शत्रुञ्जयाद्रिरूपं तीर्थ सिद्धिक्षेत्रमित्येवं प्रत्यपादि प्रतिपादितम् // 34 // अथाऽस्य त्रिषु नामसु प्रत्येकं हेतुं प्रतिपादयन्नादौ शत्रुजयेतिनामहेतुमाह नामानीति-- नामान्यस्य त्रीणि पृथ्वीधरस्य पाहुर्विज्ञास्तत्र शत्रुजयोऽयम् / संसाराम्भोराशिपाते निदानप्रस्फूर्जत्क्रुन्मुख्यशत्रुप्रणाशात् // 35 // विज्ञाः विशिष्टज्ञानवन्तः, अस्य प्रस्तुतस्य पृथ्वीधरस्य शत्रुञ्जयाउद्रेस्त्रीणि नामानि प्राहुः कथयन्ति तत्र तेषु त्रिषु नामसु संसारदुस्तरत्वविपुलत्वादितोऽम्भोराशिः सागरस्तत्र पाते पतने समागमने भ्रमणे वा निदानमादिकारणं प्रस्फूर्जन् प्रवृद्धश्च क्रुत् क्रोध एव मुख्यो बलवान् शत्रुस्तस्य प्रणाशादपनयनाद् एव हेतोः, “निदानं त्वादिकारणम्" / "कोपक्रोधाऽमर्षरोषप्रतिघरुट् धौ स्त्रियामि"ति चामरः / अत्र स्थितस्याऽवश्यं शमप्राप्तिरिति भावः / अयं प्रस्तुतोऽद्रिः शत्रुञ्जयः शत्रु जयतीति स तदाख्यः, अभूदिति शेषः / अत्र स्थितस्य शमाऽऽगमात्क्रोधारिवर्गापगमाच्चायं शत्रुञ्जयेत्यन्वर्थनामा महामहिमेति भावः // 35 // अथाऽपरनाम्नो हेतुमाह-पापेति-- पापध्वंसाद् निर्मलत्वं ददानः प्रोक्तोऽर्हद्भिश्चिद्धनैनिर्मलाद्रिः / निर्वाणाप्तेः पुण्डरीकस्य चैष ख्यातो जातः पर्वतः पुण्डरीकः // 36 // चिद् ज्ञानं घनः सारो येषां तैः ज्ञानिभिरर्हद्भिः, पापध्वंसाद् पापध्वंसं विधाय निर्मलत्वं पवित्रान्तःकरणत्वं ददानो वितरन् , पापध्वंसको विमलज्ञानप्रदश्चाऽयमिति भावः / एष प्रस्तुतोऽदिः निर्मलाऽदिर्विमलाचलेति नामा प्रोक्तः / एषाऽप्यन्वर्था संज्ञाऽस्येति भावः / तथा, पुण्डरीकस्य तदाख्यस्य गणधरः मुनेः निर्वाणाप्तेः मोक्षप्राप्तेर्हेतोः, एष पर्वतः पुण्डरीकः पुण्डरीकादिरित्येव ख्यातो जातः प्रसिद्धो बभूव / पुण्डरीकेति नामाऽप्यस्य सहेतुकमेवेति भावः / 36 // .