________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / तत्र शान्तौ समायाते मेरोरप्यधिकमहिमाऽस्येत्याह-आयाते इति आयातेऽस्मिन् स्वामिनि श्रीनिवासे स्वेनान्तज्ञानेन विभ्राजमाने / सौधर्मेन्द्राधन्विते तत्र बाल्ये शक्राऽऽक्रान्तं सोऽहसद् मेरुशैलम् // 30 // श्रियां सर्वलक्ष्मीणां निवासे आस्पदे, अनन्तज्ञानेन केवलज्ञानेन विभ्राजमाने शोभमाने सौधमन्द्रादिभिरन्विते युक्तेऽस्मिन् श्रीशान्तिनाथे स्वामिनि स्वेनाप्रेरणयैव आयाते समागते सति शत्रुजयः बाल्ये शैशवे जन्मकल्याणकावसरे शक्राक्रान्तं इन्द्रावधिष्टितं मेरुशैलम् अहसत् स्वस्मादपकृष्टममन्यत, त्वयि बाल्ये इन्द्रादिनानीतः न तु स्वेन मयि तु तीर्थकृत्सन् स्वेन समायात इति त्वदधिकोऽहं भाग्यशालीत्येवमिति // 30 // अथ तत्र तीर्थकृतो देशनामाह-देवैरिति देवैः पूर्णे निर्मिते तत्र पूर्वरीत्याऽऽस्थानेऽशोकवृक्षायुपेते / स्वाम्यासीनो देशनावाकसुधाभिर्विश्वं विश्वं जीवयामास शान्तिः 31 // तत्र शत्रुञ्जये देवैः इन्द्रादिभिः पूर्वरीत्या पूर्ववर्णितरीत्या अशोकवृक्षाद्युपेते प्रसिद्धाष्टप्रातिहार्यसहिते पूर्णे अव्यङ्गे आस्थाने समवसरणे निर्मिते आसीन उपविष्टः स्वामी शान्तिस्तदाख्यस्तीर्थंकृत् देशनावाच उपदेशवाचः सुधा इव ताभिः विश्वं समस्तं विश्वं जगद् जीवयामास, देशनया अहिंसाद्यात्मकत्वात् , अभयप्रदत्वादिति भावः सुधाभिर्हि जीवनं समुचितमेव // 31 // अथेन्द्रप्रश्नमाह-नत्वेति नत्वा नाथं प्राञ्जलिर्देशनान्ते विज्ञप्ति स्वर्नाथ एतां व्यधत्त / स्वामिन्नद्रेरस्य मानं स्ववाचा व्याचक्ष्व त्वं मे पुरस्तात् प्रसद्य // 32 // देशनान्ते व्याख्यानावसाने स्वर्नाथ इन्द्रः प्राञ्जलिः बद्धाञ्जलिः सन् नाथ तीर्थकृतम् शान्ति नत्वा एतां विज्ञप्ति प्रार्थनां व्यधत्त चकार, एतामिति किमित्याह स्वामिन् प्रसद्यानुगृह्य मे मम पुरस्तात् अस्य शत्रुञ्जयाख्यस्याद्रेः पर्वतस्य मानं माहात्म्यादि त्वं भवान् स्ववाचा स्ववाण्या, अन्यवाचा न तथा तृप्तिर्यथा त्वद्वाचेत्याग्रह इति भावः / व्याचक्ष्व व्याख्याहि // 32 // अथ तीर्थकद्वचनमाह-प्राक्रस्तेति माक्रस्ताऽथो शान्तिनाथः प्रवक्तुं तन्माहात्म्यं क्ष्माभृतोऽस्य प्रथीयः / पूर्व कालेऽस्मिन्नयं पूर्वतीर्थ ख्यातं शक्राऽष्टापदादेरपीडयम् // 33 // अथ इन्द्रप्रश्नानन्तरम् शान्तिनाथस्तीर्थकृत् अस्य शत्रुञ्जयाख्यस्य माभृतः पर्वतस्य प्रथीयः प्रसिद्धतरं महत्तरं वा तद्विलक्षणं महात्म्यं महिमानं प्रवक्तुं प्राक्रस्त समारब्धवान् / तदेवाह-पूर्वे काले पुरा अस्मिन् लोके शक्रस्य पर्वतेन्द्रस्य यद्वा शक्रेति सम्बोधनम् / अष्टापदस्य तदा