________________ 310 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। तदीपाधानं दीपावलोति ख्यातं पर्व स्मारयन्ति, एतेन तत्र दीप्राणामोषधीनां प्राचुर्यमुक्तम् तैलसम्बन्धवर्जनरूपाधिकार्ययोगादधिकाऽलङ्कारः // 26 // अत्र तत्र पर्वते मेघावस्थानमाह-अम्भोदेति अम्भोदानां पंक्तिरालम्बनस्याऽभावायोम्नि श्रान्तिमालम्बमाना। अध्यासीना यस्य सानूनि नूनं भ्रान्त्युच्छेदाद् निर्वृति विन्दतेऽरम् // 27 // अम्भोदानां मेघानाम् पङ्क्तिः माला ब्योम्नि आकाशे आलम्बनस्याधारस्याभावात् श्रान्ति सततं भ्रान्त्या क्लममालम्बमाना प्राप्ता सती यस्य सानूनि प्रस्थानि अध्यासीना आश्रयमाणा, एतेन शत्रुञ्जयस्य मेघप्रचारदेशापेक्षयाऽप्यधिकमुच्चस्त्वं सूचितम् / नूनं निश्चितमरं शीघ्रमेव भ्रान्तेः पवनकृतभ्रमणरूपायाः श्रमक्रियायाः उच्छेदान्निवृत्तिं सुखम् विन्दते लभते, भारापगमे भारवाहवत्, अत्र भ्रान्त्युच्छेदादिति निर्वृतिमिति च श्लिष्टविशेषणमाहात्म्यात् शत्रुञ्जये लोकानां भ्रान्तेः / देहात्मरूपायाः आत्मनानात्वरूपायाः वा विपरीतबुद्धेः उच्छेदान्नाशान्निति निर्वाणं मोक्षमिति यावत्, विन्दन्ते प्राप्नुवन्तीत्यपि सूचितमिति समासोक्तिः // 27 // तत्र गैरिकादिधातुप्राचुर्यमाह-धातुब्रातमिति धातुवातं शोणितं दर्शयन् स्वमेवं ब्रूतेऽभ्यागतानां पुरो यः। रागं मुक्त्वा स्वात्मनिष्ठं प्रभूताः सिद्धि प्राप्ता अत्र निर्धतमोहाः // 28 // यः शत्रुञ्जयाद्रिः स्वम् स्वकीयम् धातुवातं गैरिकादिधातुसमूहम् शोणितम् रक्तवर्ण दर्शयन्नेवं अभ्यागतानामागतानाम् यात्रिकाणां पुरोऽग्रे ब्रूते, एवमिति किमित्याह अत्र पर्वते प्रभूताः बहवः स्वात्मनिष्ठं रागं विषयासक्तिं मुक्त्वा परित्यज्य, अत एव, निर्धूतमोहाः विगतमोहाः सन्तः सिद्धि प्राप्ता मुक्ताः, अत एवात्र रागशब्दस्य श्लेषमाहात्म्यादत्र धातवः सरागा जाता इति भावः सिद्धिसाधकमहिमाऽयं पर्वत इति // 28 // अथ तत्र निर्झरखेचरादिसम्पत्तिमाह-मुक्तेति मुक्ताभ्रान्त्या शीकरान् निर्झराणां क्लृप्तान् नूनं शारदज्योत्स्नयेव / संगृह्णन्त्यः पाणिपद्मेन मुग्धा वार्यन्ते स्वाः खेचरैयंत्र कान्ताः // 29 // यत्र शत्रुञ्जयाद्रौ निर्झराणां पर्वतप्रवाहाणाम् शीकरान जलकणान् नूनम् शारदया शरहतूद्भवया ज्योत्स्नयाऽतिनिर्मलया चन्द्रिकया कृतान्निर्मितानिवोपलक्ष्यमाणान् मुक्तानां स्वनामख्यातानां मुक्ताफलानां भ्रान्त्या पाणिपद्मन संगृह्णन्त्यः / संचिन्वन्त्यः मुग्धाः, अत एव जलकणेषु मुक्ताभ्रान्तिरिति भावः / स्वाः स्वकीयाः कान्ताः खेचर्यः खेचरैः विवेकिभिर्विद्याधरैः वार्यन्ते प्रतिषिध्यन्ते, नैते मुक्ताः किन्तु जलकणाः इत्येवमिति भावः / निर्झराः तत्र रममाणा विद्याधराश्चात्र सन्तीति विलक्षणोऽयं पर्वत इति भावः // 29 //