________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 309 वासो वस्त्रं चित्रं नानाविधमाश्चर्यकरञ्च, भोजनं भोज्यान्नपानादि देवेन भोज्यम् देवभोज्यम्, दिव्यमित्यर्थः, एवञ्च वस्त्रान्नोत्कर्ष उक्तः, वाहा अश्वाः रम्याः मनोहराः, उत्कृष्टा इत्यर्थः, तथा चोपमामाह भानुः सूर्यस्तस्य वाहा उपमानं येषां ते तादृशाः तथा, योषितः स्त्रियः लक्ष्मीरूपाः लक्ष्मीतुल्य सुन्दर्यः, इत्येवं झै विज्ञैः साक्षात् पुण्यश्रियः फलमिव नूनं दृश्यते उत्प्रेक्ष्यते नहि पुण्यं विना तादृशविलक्षणवस्तु सम्पत्तिरिति भावः // 23 // अथ तत्राहिंसादिसाम्राज्वमाह-ख्यात इति-- ख्यातो मारः केवलं पुष्पचापे व वां दारा इत्ययं शब्दयोगः कृष्णे वर्णे काल एवास्ति चैते नैवाऽन्यार्थे विश्रुता यत्र शब्दाः // 24 // यत्र सौराष्ट्रे मारः मारशब्दः केवलं पुष्पचापे कामे ख्यातः, पर्यायत्वात्, यथा, दारा इत्ययं शब्दयोगः शब्दप्रयोगः वध्वां भार्यायाम्, केवलमिति सम्बध्यते, तथा, कृष्णे वर्णे एव कालः कालशब्दोऽस्ति, कालशब्दप्रयोगः, एते चोक्ताः शब्दाः अन्यत्रार्थेऽर्थान्तरे नैव विश्रुताः प्रयुक्ताः, हिंसाद्याभावात् मारशब्दस्य परदारणावभावात् , दारशब्दस्य सुखेन व्यतीयमानस्य कालस्यानवबोधात् समयात्मककाले कालशब्दस्य, अकालमरणादेर्दुष्कालस्य चाभावाच्च कालशब्दस्य चार्थान्तरे प्रयोगासम्भवादेव न प्रयोग इति गूढार्थः कुलकं दशभिः // 24 // अथ तीर्थकृतः शत्रुञ्जयपर्वताद्यारोहणमाह-अध्येति-- अध्यारुक्षत् तीर्थकृच्छान्तिनाथः पुण्याम्भोजोद्बोधने द्वादशात्मा / स्वर्णस्तम्भच्छायया दृश्यमानोऽन्तःशत्रुद्विट् तत्र शत्रुब्जयाद्रिम् // 25 // तत्र सौराष्ट्र पुण्यरूपस्याम्भोजस्य कमलस्य उद्बोधने विकासने प्रचारणे द्वादशात्मा दिवाकरः "आदित्यो द्वादशात्मा दिवाकरः" इत्यमरः / अन्तःशत्रून् कामादिषड्रिपून् द्वेष्टीति सोऽन्तःशत्रुद्विट् वीतरागः स्वर्णस्तम्भस्य छायया कात्या "छाया सूर्यप्रिया कान्तिः' इत्यमरः / दृश्यमानः उपलक्ष्यमानः तीर्थकृत् शांतिनाथः शत्रुञ्जयादिमध्यारुक्षदारूढ़वान् // 25 // अथ शत्रुञ्जयं वर्णयन् तत्रौषधीसम्पत्तिमाह-योति यत्रौषध्यो दीपवत् प्रज्वलन्त्यस्तम्यां नित्यं तैलसम्बन्धवर्जम् / सीमस्थानां हृन्दि विस्मापयन्त्यो दीपाधानं पर्व संस्मारयन्ति // 26 // यत्र शत्रुञ्जयपर्वते तम्यां रात्रौ "रजनी यामिनी तमी"त्यमरः / नित्यं सर्वदैव, तैलसम्बन्धवजम् तैलं विनैव दीपवत्प्रज्वलन्त्यः ओषध्यः, अत एव विस्मापयन्त्यः विस्मयं कारयन्त्यः, तैलं विनैवज्वालानामिति विस्मय इति भावः सीमस्थानां तत्पर्वताभितः समीपस्थानां दीपा आधीयन्ते अस्मिन्निति