________________ 308 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः सन्तः गुणज्ञाः क्षीरम् दुग्धम् पानीयं च पीत्वा "नीरक्षीराम्बु" इति “दुग्धं क्षीरं पयः" इति चामरः लागलीनां लवलीनां खजूराणां स्वनामप्रसिद्धानां माधवीनां च फलानाम् नागवल्लीदलानाम् ताम्बूलपत्राणां च आस्वादं लब्ध्वा उपभुज्य चेत्यर्थः मूर्धानं मस्तकं धूनयन्तः कम्पयन्तः यं सुराष्ट्रदेशं स्तुवन्ति स्वादेन तृप्ताः सशिरःकम्पं प्रशंसन्ति लोका इति स्वभावः // 19 // अथ तत्र विलक्षणवस्तुसम्प्राप्तिमाह-यस्मिन्निति-- यस्मिन्नानैर्नालिकेरप्रमाणैर्माधुर्येणेवाङ्गजैः शर्करायाः / राजास्वाधैर्विस्मयः कस्य न स्याद् दृष्ट्वाऽपूर्व वस्तुचित्रं यतोऽत्र ? // 20 // यस्मिन् सुराष्ट्रदेशे नालिकेरप्रमाणैः नालिकेरवन्महद्भिः नालिकेरतुल्याकारैः माधुर्येण कृत्वा शर्करायाः सिताविशेषस्य खण्डशर्करेति प्रसिद्धायाः अङ्गजैः पुत्रैरिवोत्प्रेक्ष्यमाणैः राजभिरेव अतिदुर्लभत्वादास्वाद्यैरुपभोग्यैः आत्रैः स्वानामप्रसिद्धफलैः अत्र लोके चित्रं नानाप्रकारमपूर्वमननुभूतं वस्तु दृष्ट्वा कस्य विस्मयो न स्यात्, अपि तु स्यादेव, यतः सर्वो हि अपूर्वमद्भुतं च दृष्ट्वा विस्मयत एवेति भावः // 20 // अथ तत्र जिनमन्दिरसमृद्धिमाह-लोका इति लोका दृष्ट्वा यत्र देवाधिदेवं श्रीनाभेयं चन्द्रभं चाऽपि नेमिम् / श्रद्धाऽऽवेशात् तीर्थयात्रासमेता मन्यन्ते स्वं जन्म सत्यं कृतार्थम् // 21 // यत्र सुराष्ट्रदेशे तीर्थयात्रया समेताः सहिताः समागताः लोका यात्रिकाः देवाधिदेवं श्रीनाभेयम् , घृषभनाथं, शत्रुञ्जयपर्वते इति भावः चन्द्रभं चन्द्रप्रभम् सोमनाथपाटणे, नेमि चापि नेमिनाथञ्चापि, गिरिनारगिरौ दृष्ट्वा, श्रद्धाया आवेशादावेगात् स्वं जन्म सत्यं वस्तुतः कृतार्थ कृतकृत्यम् जन्मन एतन्मुख्यं फलं यदेतेषां दर्शनमित्येवमिति मन्यन्ते ए२१॥ अथ तत्र वासःसमृद्धिमाह-किमिति-- कि रत्नानां खानिरत्रास्ति यद्वत् सद्रूपाणां वाससां किं नु तद्वत् ? / संप्राप्यन्ते तान्यहो ! वान्छितानि यस्मादित्यूह व्यधुर्यत्र पान्थाः // 22 // अत्र सुराष्ट्रे यद्वत् यथा रत्नानां खानिराकरोऽस्ति, किं तद्वत्तथा सद्पााणां सदाकाराणां वाससां नु किं खानिरस्ति, ननु कुत एष वितर्क इतिचेत्तत्राह अहो इति सानन्दाश्चर्यो यस्माद्धेतोः तानि वस्त्राणि रत्नानि च वाञ्छितानि इच्छानुकूलानि सम्प्राप्यन्ते इतीत्थम् पान्थाः यात्रिकाः यत्र सौराष्ट्रे अहं वितर्क व्यधुः कृतवन्तः, रत्नानां वाससां चात्र सौलभ्य भेति समृद्धोऽयं देश इति, // 22 // अथ तत्रत्यसर्वसमृद्धिं वर्णयति वास इति : वासश्चित्रं भोजनं देवभोज्यं वाहा रम्या भानुवाहोपमानाः / लक्ष्मीरूपा योषितो यत्र नूनं साक्षात् पुण्यश्रीफलं दृश्यते ज्ञैः // 23 //