SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम 307 अर्थ तत्रत्यसमुद्रं वर्णयति-प्रेमोत्कर्षमिति-- प्रेमोत्कर्ष बिभ्रतोऽपत्यरूपे निःसामान्यं बालकालेऽपि चन्द्रे / पारावारात् पुत्रवात्सल्यमेतद् यस्मॅिल्लोकैरीक्षितं शिक्षितं च // 16 // यस्मिन् सौराष्ट्र बालकालेऽपि उदयकालेऽपि, द्वितीयादितिथौ वा अपत्यरूपे पुत्ररूपे चन्द्रे समुद्राच्चन्द्रोत्पत्तिरिति पौराणिकाः / निःसामान्यमसाधारणं प्रेमोत्कर्षप्रेमातिशयम्, चन्द्रं दृष्टोदधौ वेला समायातीतीथमुक्तिः बिभ्रतः धारयतः पारावारात् समुद्रात्सकाशात् एतत्सर्वानुभूतं पुत्रे विषये वात्सल्यम् लौकैरीक्षितं दृष्टं शिक्षितमधिगतञ्च, कथमन्यथा सर्वे पुत्रे स्निह्यन्तीति भावः अत्र लोका इतरविलक्षणापत्यवत्सला इत्यर्थः अत्र पुत्रवात्सल्यस्य समुद्रात् शिक्षणमुत्प्रक्ष्यतेऽध्यवस्यते वेति उत्प्रेक्षाऽतिशयोक्तिर्वा // 16 // अथ तत्रत्यलोकानां-गुणान्तरमाह गम्भीरेति-- गम्भीरत्वं यत्र लोकैरुपात्तं नूनं भक्तया सन्निधिस्थात् समुद्रात् / लक्ष्मीव्रत्त्वं चापि, किं वा महान्तो नैवाऽऽराद्धाः संप्रयच्छन्त्यतुच्छम् // 17 यत्र सौराष्ट्र लोकैः सन्निधिस्थात्समीपस्थात्समुद्रात्सकाशात् भक्त्या आराधनया कृत्वा गम्भीरत्वं धीरबुद्धित्वम् लक्ष्मीवत्त्वमैश्वर्यञ्चापि उपात्तं गृहीतम् ननमत्प्रेक्षे समद्र उभयोः सत्त्वादिति भावः ननु भवतु समुद्रे तदुभयम् किमिति तेन तेभ्यो दत्तमित्यतोऽर्थान्तरं न्यस्यति किमिति महान्तः विशालाशयाः आराद्धाः सेविताः सन्तः किं कतरं वा अतुच्छम् सारवद् द्रव्यादि नैव सम्प्रयच्छन्ति ददति ! अपि तु सारवदपि पूर्वमेव ददतीत्यर्थः इदमेव महत्त्वमिति भावः // 16 // अथ तत्रातिथिसत्कारिणो जना इत्याह-दृष्टेति-- दृष्ट्वा सन्तो यत्र कूपान्तोघटाश्चीत्कारस्य च्छद्मनौचित्यभाजः। अभ्यायातं स्वामिनः शिक्षयेव पृच्छन्त्येव स्वागत पान्थवर्गम् // 18 // यत्र सौराष्ट्रे कूपारधट्टाः कूपे योजितानि जलयन्त्राणि स्वामिनः जलयन्त्रपतेः शिक्षयोपदेशेनेव औचित्यभाजः सन्तः औचितीज्ञाः भूत्वा चीत्कारस्यारावस्य च्छद्मना छलेन पान्थवर्गम् अतिथिमभ्यायातमागतं दृष्ट्वा एव न तु विलम्बेन स्वागतं पृच्छन्ति आगतेऽतिथौ तत्स्वागतादिपृच्छाया लोकाचारत्वादिति भावः अतिथिवत्सलास्तत्रत्यलोका इत्यर्थः उत्प्रेक्षाऽलङ्कारः // 18 // तत्र पानादिसमृद्धिमाह-पीत्वेति-- पीत्वा क्षीरं लागलीनां फलानां खजूराणां माधवीनां च सन्तः। लब्ध्वाऽऽस्वादं नागवल्लीदलानां यं मूर्धानं धूनयन्तः स्तुवन्ति // 19 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy