SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 306 श्रीशान्तिनाथमहाकाव्यम्-एकोनविंशः सर्गः / कुकर्महिंसादिरूपः दावो दावानल इव तेन प्लुष्टे दग्धे भव्याः क्षेत्राणीव तदन्तराले मध्ये बोधः सद्बोधः सीरो हल इव तेन कृष्टे कृतसंस्कारे सति स्वच्छैनिमलैः उदञ्चद्भिरुच्छलद्भिः भावना अभासीव तैः प्रसिक्ते कृतसेके च सति सम्यक्त्वाख्यमेकमासाधारणं बीजं वपन ज्ञः ज्ञानी स ती कृव्यहार्षीत् उपमा // 12 // अथ प्रवृत्त्यन्तरमप्याह-प्रेति प्रादक्षिण्यं शाकुनानां प्रकुर्वन् दाक्षिण्यं वा रोपयंस्तन्मनःसु / मिथ्यादृष्टीन् कण्टकौघानिवाराद् माहात्म्येनाऽवाङ्मुखान् निर्मिमाणः // 13 // शाकुनानां पक्षिगणानाम् प्रादक्षिण्यं प्रकुर्वन् यथा पक्षिगणा अपि प्रभुप्रदक्षिणं कुर्वन्तीत्येवं स्वमहिम्ना तथा विदधन् तथा तेषां शाकुनानां मनःसु दाक्षिण्यं नम्रतां रोपयन् स्थापयन् नम्रः सन् हि श्रद्धालुर्भवतीति भावः तथा अवाङ्मुखान् कण्टकौघानिव यथा यत्र भगवान् विहरति तत्र स निखिलकण्टकानधोमुखान् स्वमहिम्ना कुर्वाण इव मिथ्यादृष्टीन् जिनोक्तत्त्वाऽश्रद्धालन् तत्कृतपूर्वपक्षरूपाणामनिवारादशक्त्याऽनुत्तरणाद्धेतोः माहात्म्येन स्वातिशयमहिम्ना अवाङ्मुखान् पराजितान् लज्जानम्रमुखान् निर्मिमाणः कुर्वाणः, व्यहार्षीत् // 13 // अथ विहारदेशमाह-नम्रीति नम्रीकुर्वन् वर्त्मगान् शालसङ्घान् सम्यक्त्वाट्यान् श्रावकौघानिवाऽऽरात् / तत्राथाऽर्हन् श्रीसुराष्ट्राख्यराष्ट्रे स्वामी राजन् प्रातिहार्यैर्व्यहार्षीत् // 14 // अथ स्वामी अर्हन् तीर्थकृत्, तत्र प्रसिद्ध श्रीसुराष्ट्राख्यदेशे प्रातिहायः अष्टभिरशोकादिभिः प्रसिद्धैः प्रातिहार्यैः राजन् शाभनानः आरात् दूरे समीपे च,सर्वत्रेत्यर्थः "आरादूरसमीपयोः" इत्यमरः सम्यक्त्वाड्यान् सम्यक्त्वसंपन्नान् श्रावकौघान् श्रावकसमूहानिव वर्त्मगान् मार्गस्थान् शालसङ्घान् वृक्षसमूहान् नम्रीकुर्वन् , विहारसमये तेषां पुष्पफलभरनम्रतयेत्थमुक्तिः व्यहार्षीत् // 14 // कुलकम् / अथ सौराष्ट्र वर्णयति-अध्वेति-- अध्वन्यानामाशु यत्रारघटाश्चीत्कारेण श्रोत्रमार्ग गतेन / खेदच्छेदं कुर्वते पूर्वमेव पश्चादापः शीतलाश्चातपेऽपि // 15 // यत्र सौराष्ट्रे आतपे खरकरेऽपि अरघट्टाः जलयंत्राणि पूर्वमेव चीत्कारेण जलोदञ्चनजनितारावेण श्रोत्रमार्ग कर्णविवरं गतेन प्राप्तेन सता अध्वन्यानां पथिकानाम् खेदच्छेदं क्लमापनयमाशु कुर्वते शीतला आपो जलानि च पश्चात् क्लान्ताः तृषिताश्च पथिकाः प्रथममरघट्टशब्दं श्रुत्वैव तृप्यन्ति पश्चादद्भिरित्यत्र सुश्रवा अरघट्टशब्दाः शीतलाश्चाप इति तृषाविच्छेदका इति भावः // 15 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy