________________ 305 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राणां सहस्रं बिभ्रता धारयता, सहस्रारेणेत्यर्थः / अग्रे स्फूर्जता विज्रम्भमाणेन धर्मचक्रेण राजमानः शोभमानः, विश्वस्य मोहान्धस्य सर्वस्यान्ध्यं मोहदृष्टिविलोपरूपम् निर्विशङ्कमसंशयम् वितन्वन् कुर्वन् व्यहार्षीत् // 8 // अथ तस्य चामरवीजनमाह-शक्रेति शक्रेशानस्त्रीप्रमोदप्रमुक्तलाजाऽऽभाभ्यां सर्वदा चामराभ्याम / जम्बूद्वीपान्तर्गतानुष्णरश्मिद्वैतज्योत्स्नानिर्जय वीज्यमानः // 9 // शक्रेशानयोः स्त्रीभिः तत्रैव देवीनां सद्भावादिति भावः प्रमोदात्प्रमुक्ता विकीर्णा लाजा इवाभात इति ताभ्यां लाजवद्रवलाभ्याम् चामराभ्याम् जम्बूद्वीपान्तर्गतयोः अनुष्णरश्म्योः चन्द्रयोर्यद् द्वैतं द्वित्वं चन्द्रद्वयस्य / ज्योत्स्नायाः चामरद्वयरूपम् देन कृत्वा ज्योत्स्नायाः व्योमचन्द्रद्वयचन्द्रिकायाः निर्जयोऽभिभवनं यथास्यात्तथा सर्वदा वीज्यमानः, व्यहार्षीत् // 9 // अथ गन्धर्वादिस्तुतिमाह-गन्धर्वेति गन्धर्वोधः सुस्वरैर्गीयमानः श्रद्धाशुध्दैश्चारणैः स्तूयमानः / आकाशस्थैः खेचराणामधीशैः स्वीयस्त्रीणां दर्यमानोऽङ्गुलीभिः // 10 // गन्धर्वाणामौधैः समूहैः सुस्वरैः श्रुतिप्रियैः स्वरैः कृत्वा गीयमानः कीर्त्यमानः श्रद्धाशुद्धैः श्रद्धालुभिश्चारणैः मागधैः स्तूयमानः आकाशस्थैः खेचराणां विद्याधरादीनामधीशैः स्वीयस्त्रीणाम् विद्याधरादिपत्नीनामङ्गुलिभिः दर्यमानः व्यहार्षीत् // 10 // अथ तस्य धादिप्रवृत्तिमाह-सौरे इति सौरे मार्गे दुन्दुभिध्यानपूर्व धर्मस्थानं वासयन् सर्वतोऽपि / देशत्यागं निर्दिशंश्चापि पापव्यापाराणामेकवारं स्वतोऽपि // 11 // स्वतः आत्मनाऽपि एकवारम् युगपदेव सर्वतोऽपि सर्वत्रैव सौरे सूर्यसम्बन्धिनि मार्गे पथि आकाशे इत्यर्थः / दुन्दुभिध्वानः पूर्वं यथास्यात्तथा, धर्मस्थानं समवसरणं वासयन् आश्रयन् धर्मस्थानवासनकाले युगपदेव सर्वत्रैवाकाशे दुन्दुभयः स्वयमेव नदन्तीति चित्रमेषोऽतिशय इति भावः / पापव्यापराणां हि देशतः त्यागः तं, चकारात्सर्वतत्यागं चेति भावः / निर्दिशन्नुपदिशंश्चापि, व्यहार्षीत् // 11 // अथ भव्यानां तत्कृतसम्यक्त्वप्रापणमाह भव्येति भव्यक्षेत्राभ्यन्तराले कुकर्मदावप्लुष्टे बोधसीरेण कृष्टे / स्वच्छोदश्चद्भावनाऽम्भःपसिक्ते सम्यक्त्वाख्यं बीजमेकं वपन ज्ञः॥१२॥ - शा० 39