SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 304 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। राद्धाम् त्रिरत्नीम् साम्प्रतं कृतकृत्योऽपि धारयाम्येवेति कुतज्ञोऽहमेव, न तु अकृतज्ञः, अत्यागादिति भावः // 5 // अथ तद्ध्वजं वर्णयति-उद्दामोद्यदिति उद्दामोद्यच्छौर्यवीर्यप्रचण्डमोहात् त्रासाच्छिष्यवर्गस्य पूर्वम् / भग्नज्ञानाऽहानविज्ञानहेतोरुवीकृत्योद्भावयन् स्वध्वजं वा // 6 // पूर्व सम्यक्त्वप्रतिपत्तितः प्राक, शिष्यवर्गस्य उद्दामानि उच्छृङ्खलानि निग्रहीतुमशक्यानीति / यावत्, उद्यन्ति वर्धमानानि च शौर्याणि वीर्याणि च यस्य स चासौ प्रचण्डोऽनभिभवनीयो मोहश्च तद्रूपात् त्रासात् भग्नज्ञानत्वात् लुप्तविवेकत्वाद् हेतोरेव शिष्यवर्गस्य आह्वानस्य विज्ञानम् ज्ञानम् तद्धेतोस्तदर्थम् मा बिमेहि, आगच्छ मत्पार्श्वम् अत्र च सम्यग्दर्शनादिरत्नत्रयप्राप्तिः समस्तमोहव्यपोहश्च तव स्यादित्येवमासानं करोमीति ज्ञानार्थमित्यर्थः, वा इव स्वध्वजम् ऊन्वीकृत्य उत्संस्थं कृत्वा उद्भावयन् प्रकटयन्, व्यहार्षीत्, उत्प्रेक्षा // 6 // अथ विहारप्रकारमाह-पादेति पादाब्जाधः स्वर्णपद्मानि कुर्वन् स्वपत्नश्रीजागरूकममाणि। सर्वोत्कृष्टं निःस्पृहत्वं ब्रुवाणो निर्वाणस्य पापणे लग्नकामः // 7 // पादाब्जे इव तयोरधः अधस्तात् पादतले इत्यर्थः, स्वा स्वकीया या प्रत्ना अतिप्राचीना "पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः" इत्यमरः श्रीः तया जागरूकाऽतिप्रकटा प्रभा येषां तानि तादृशानि स्वर्णपद्मानि स्वर्णकमलानि कुर्वन्, तीर्थकृत्पादन्यासस्थाने देवैः प्रागेव स्वर्णकमलप्रस्तरणादिति भावः अत एव सर्वोत्कृष्टमनन्यासाधारणं निःस्पृहत्वं निस्तृषत्वं ब्रुवाणः कथयन्निव, सर्वे सुवर्णार्थं स्पृहयन्ति, अहं तु वोतरागत्वात्तत्पादतले कृत्वा तृणाय मन्ये मोहक्षयचिकीर्षा चेत्तदा त्वमपि तथा मन्यस्वेति भावः / तथा निर्वाणस्य मोक्षस्य प्रापणे जना मुञ्चन्त्वित्येवम् लग्नकामः समीहमानः, परमकारुणिकत्वादिति भावः / व्यहार्पोत्, अत्र स्वर्णपद्मपादाधःकरणस्य निःस्पृहत्वकथने हेतुत्वोपगमाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः // 7 // अथ तद्धर्मचक्रं वर्णयति-अग्रे इति अग्रे स्फूर्जद्धर्मचक्रेण सूर्य जित्वा भाता बिभ्रताऽऽरासहस्रम् / विश्वस्यान्ध्यं निर्विशङ्कं वितन्वद् मोहध्वान्तं निम्नता राजमानः // 8 // * मोहः ध्वान्तमिव तत् निम्नता नाशयता, अत एव, सूर्य जित्वाऽभिभूय, भाता प्रकाशमानेन, सूर्यो हि ध्वान्तमेव नाशयति, न तु मोहन्वान्तमिति ततोऽयमधिक इति भावः / आराणाम
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy