________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 303 कंषायाः क्रोधमानमायालोभाः ज्वालेव जिह्वा यस्य सोऽग्निः स इव, तापकत्वादिति भावः। तस्य ज्वालानां जालेन कलापेन, कषायजनितप्रवृत्तिभिरित्यर्थः / काममत्यर्थम्; ताप्यमानम् भर्यमानम्, पीड्यमानमिति यावत्, विश्वमाराम उपवनमिव, तम्, लक्षणया विश्वस्थलोकमित्यर्थः / देशना उपदेशवाचः वारिपूराः जलप्रवाहा इव तैः स्वच्छं निर्मलं निरतिचारश्च शम्बरं जलम् "नीरक्षीराम्बुशम्बर" मित्यमरः / उपमेयपक्षे सशयोः श्लेषात् सम्बरम् सर्वथा आश्रमनिरोधात्मकं सर्वविरितिरूपं चारित्रमित्यर्थः, बिभ्रत् धारयन् वारिदो वः जलधर इव, उच्चैः अत्यन्तं सिञ्चन् प्लावयन् वर्षन् क इवेत्यत आह-यथा हि वारिदवर्षणेन आरामतापविलोपः, तथा तीर्थकद्देशनया कषायोपशमेन कृत्वा लोकमनस्तापविलोप इति भावः // 3 // देशनया न तापलोपमात्रम् किन्तु प्रबोधोऽपीत्याह हृत्वेति-- हृत्वा विश्वव्यापि मोहान्धकारं वागुस्रोधैर्बोधयन् भव्यपद्मान् / भिन्दनू सर्व लोककोकस्य शोकमादित्यो वा विप्रलम्भप्रभूतम् // 4 // वाचः देशनागिरः उम्रौघाः मोहान्धकारनाशकत्वात् किरणकलापा इव तैः कृत्वा "किरणोसमयूखांशुगभस्तिवृष्णिरश्मयः' इत्यमरः / विश्व व्याप्नोतीति स सर्वलोकगतश्चासौ मोहः अनात्माऽऽत्मीयेषु आत्मात्मीयबुद्धिः, स अंधकारः इव ज्ञानावरकत्वात्स च तम्, हृत्वा दूरीकृत्य, अत एव, भव्याः प्रबोधैकधर्मत्वान्पमानीव तान्, बोधयन् विकासयन् सम्यक्त्वववतः कुर्वश्च, विप्रलम्भात्तीर्थान्तरीयकृतान्नानायुक्तिप्रयुक्तिभिर्विप्रतारणात्, तेषां मिथ्यात्वादिति भावः, प्रभूतम्, जातम्, अथ च दिवाऽपि मेघराहूपरागादिभिः रात्रिभ्रान्त्या वियोगजम्, लोकः कोकः चक्रवाक इव तस्य सर्व शोकम् दुःखम् भिन्दन् नाशयन् आदित्यो वा सूर्य इव, व्यहार्षीत् / उपमा // 4 // अथ तस्य छत्रत्रयधारण वर्णयति-वृत्तत्वेति वृत्तत्वाइनिर्मलत्र्यातपत्रोव्याजाद् मौलेरूद्धमाकाशदेशे / प्रागाराद्धां धारयन् सुत्रिरत्नी काशं वाल्यापयन् विश्वमध्ये // 5 // मौलेर्मस्तकस्योर्ध्वमुपरि आकाशदेशेऽवकाशे वृत्तत्वभ्राड् वर्तुलाकारा या निर्मलाऽवदाता त्र्यातपत्री छत्रत्रयं तस्या व्याजान्मिषात् प्राक् पूर्वकाले आराद्धां सेविताम् सुत्रिरत्नीम् सम्यग् दर्शनज्ञानचारित्ररूपरत्नत्रयं धारयन् विश्वमध्ये कार्तज्ञं कृतज्ञतां ख्यापयन् प्रकटयन् वेव, सिद्धयर्थ प्रागा