________________ अहम् // अथ एकोनविंशः सर्गः // सर्गादौ मङ्गलमारचन शान्ति स्ताति-पृथ्व्यामिति पृथ्व्यां यस्मिन् संप्रवृत्ते विहारं, कर्तुः साग्रे योजनानां शतेऽपि / नेशुस्तूर्ण मारिदुर्भिक्षरोगाः, स श्रीशान्तिः श्रेयसे भूयसे वः // 1 // यस्मिन् श्रीशान्तौ पृच्या विहारं पादचारेण भ्रमणं कत्त, देशनादिना लोकानुग्रहायेति भावः / सम्प्रवृत्ते सति, साग्रे साधिके योजनानां शतेऽपि चतसृषु दिक्षु प्रत्येकं पञ्चविंशतिर्मध्ये मारयश्च दुर्भिक्षं च तादृशा अन्ये चापि रोगाः तूर्ण नेशुः शान्ताः तीर्थकृतोऽचिन्त्यातिशयवत्वादिति भावः / स तादृशोऽलौकिकमहिमा श्रीशान्तिः तदाख्यतीर्थकद्वो युष्माकम् वाचकानां श्रोतृणां च भूयसे प्रचुराय श्रेयसे कल्याणाय, भूयादिति शेषः // 1 // अथ त्रयोदशभिः कुलकेन लोकोपकृतिक्रियावर्णनमुखेन श्रीशान्तेविहारमाह-प्रामी. जानामिति ग्रामीणानां नागराणामिवाऽवन्तश्चित्तं हर्ष निर्विशेष प्रयच्छन् / साम्योत्कर्ष संपपन्नस्य दूरं, क्षेत्रज्ञस्याऽवस्थितेस्तत्त्ववृत्त्या // 2 // अन्तश्चित्तं मनसि साम्योत्कर्ष सर्वप्राणिषु समताऽतिशयम् दूरमतिशयेन सम्प्रपन्नस्याश्रिसस्य क्षेत्रज्ञस्य स्वात्मनः "क्षेत्रज्ञ आत्मा पुरुष" इत्यमरः / तत्त्ववृत्त्या स्वस्वभावानुरूपेण, कषायादिसकलमलक्षयादिति भावः, तत्र च समताश्रयणं हेतुरिति पदार्थहेतुकं काव्यलिङ्गम् / अवस्थितेरवस्थानाद्धेतोः नागराणामिव ग्रामीणानाम् नागराणाम् ग्रामीणानां चेत्यर्थः / निर्विशेषं निरतिशयं हर्ष प्रयच्छन् ददानः, व्यहार्षीदित्यग्रिमेणान्वयः, एवमग्रेऽपि बोध्यम् / यो हि समताश्रितो विशुद्धात्मा च, तं दृष्ट्वा जनास्तुष्यन्तीत्येवमुक्तिरिति ध्येयम् // 2 // कषायनाशाय तद्देशनाप्रवृत्तिमाह-विश्वेति विश्वारामं ताप्यमानं कषायज्वालाजिह्वज्वालजालेन कामम् / सिञ्चन्नुच्चैर्देशनावारिपूरैबिभ्रत्स्वच्छं शम्बरं वारिदो वा // 3 //