________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 299 कथमित्थं जातमिति चेदचिन्त्यमहिमा विधिरित्याह एतस्य प्रसिद्धस्य विधेर्भाग्यस्य अभिमतमिष्टं विदधतः सम्पादयतः सतः को वा विलम्बो भवेत् ? न कोऽपीत्यर्थः अचिन्त्यमहिमात्वाद्विधिरभिमतं झटित्येव सम्पादयति, यदुक्तम्" आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत" इति // 138 // नन्वेवमेतत् सम्प्रति किं विधेयमिति चेत्तत्राह-प्रेति-- प्रत्यासीदति सांपतं मियतमे ! वेलाऽपि वैवाहिकी, किश्चिद येन निरीयते झटिति मे तद् द्वारमुद्भावय / पश्चात्योपवनीयपक्षकमियं तस्याऽथ साऽदर्शयत्, तेनैव प्रययौ समं मदिरया कामः स कामातुरः // 139 // प्रियतमे ! सम्प्रति वैवाहिकी वेला विवाहमुहूर्तमपि प्रत्यासीदति आसन्नतामेति, अतः येन द्वारेण निरोयते निर्गम्यते तत्तादृशं किञ्चित्किमपि द्वारं मे मम झटिति उद्भावय दर्शय येनारमितो निर्गच्छाव इति भावः अथानन्तरमियं सा मदिरा तस्य कामपालस्य पाश्चात्यस्य गृहपश्चिमस्थस्योपवनस्य पक्षकं द्वारमदर्शयत्, ततश्च स कामः कामपालः कामातुरः रागातः सन् रागातुरस्य हि न किञ्चिदकर्त्तव्यमिवेत्यतः तेनैव द्वारेण मदिरया समं सह प्रययौ निर्गतवान् // 139 // अथ जिनपतिः कथामुपसंहरन्नाह-आयातस्येति-- आयातस्य पुरः पुरेऽत्र मदिरामाणेश्वरः केशराप्राणेशस्य समेत्य दारकलितोऽसौ पाप कामो मुदम् / प्राग्जन्मप्रियतावशाद् नरपते तौ ढौकने पञ्चक वस्तूनां तनुतोऽनिशं कलय तानग्रं निषण्णानिमान् // 14 // पुरः प्रागेव अत्रास्मिन् हस्तिनापुरे आयातस्यागतस्य केशरा प्राणेशस्य वसन्तदेवस्य मिलित्वा समेत्य, सम्बन्धसामान्ये षष्ठी दारकलितः प्रियासमन्वितः असौ कामः कामपालः मुदं प्राप नरपते ? कुरुचन्द्र ? तौ द्वौ वसन्तदेवकामदेवौ प्राग्जन्मप्रियतावशात् पूर्वजन्मप्रेमाधोनौ सन्तौ ढौकने तवोपहारेऽनिशं सर्वदा वस्तूनां पञ्चकम् पञ्चवस्तूनि तनुतः सम्पादयतः तानिमान् पूर्वजन्मप्रियानग्रं निषण्णान् उपविष्टान् कलय जानीहि // 14 //