________________ 300 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः। प्रियसङ्गमादिष्टं भुझ्वेत्याह-इष्टैरिति-- इष्टैरेभिः सह नरपते ! जाततत्त्वाबबोधस्तत्त्वं भोक्तुं प्रभवसि तरां सन्निधिस्थैनिकामम् / नेयत्कालं किमपि भवता भुक्तमेतानमत्वाऽभीष्टान् प्रीतान् सुकृतकरणे निर्निदानं सहायान् // 141 // नरपते ! कुरुचन्द्र ! जाततत्त्वावबोधः एतेनोक्तप्रकारेण वस्तुपञ्चकढौकनमर्मज्ञः सन् एभिरिहस्थैः सन्निधिस्थैः सद्भिः जातपरिचयैरिष्टैः प्रियैः सह तत्त्वं सारभूतं वस्तु भोक्तुमुपभोक्तुं निकामम् यथेच्छम् प्रभवसि तराम् समर्थोऽसि यद्वा निकामं भोक्तुमित्यन्वयः एतान् पार्श्वस्थान् अभीष्टान् प्रियान् प्रीतान् प्रसन्नान् सुकृतकरणे पुण्यविधौ निर्निदानम् निष्कारणं यथास्यात्तथा सहायान् उपकारकान् अमत्वा अज्ञात्वा भवता त्वया कुरुचन्द्रेण इयत्कालमेतावन्तं कालं किमपि न भुक्तम्, प्रियसङ्गतो भुक्तं भुक्तम् अन्यथा त्वभुक्तमेवेति भावः // 141 // अथ तेषां गृहगमनमाह-आकण्येति आकयेत्यथ पञ्च तेऽपि सहसाऽस्मार्षर्भवं प्राक्तनं, स्थेमप्रेमनिमित्तसख्यभणने साक्षित्वविद्योतकम् / श्रीशान्तिं कुरुचन्द्रभूमिपतिरप्यानम्य कल्याणदं, पामेम्णा स्वगृहे निनाय चतुरो बन्धूनिवेच्छुः सुखम् // 142 // अथानन्तरम् ते कुरुचन्द्रादयोऽयि इत्युक्तप्रकारमाकर्ण्य श्रुत्वा सहसा शीघ्रं प्राक्तनं भवं पूर्वअन्म अस्मार्षुः तथा, श्रीकुरुचन्द्रभूपतिः स्थेम्नः स्थिरस्य प्रेम्णः निमित्तस्य सख्यस्य भणने कथने सत्यापने वा साक्षित्वविद्योतकम् साक्षिणं, सर्वज्ञत्वादिति भावः कल्याणदं श्रीशान्तिमानम्य प्रणम्य सुखमिच्छुः सन् प्राक् पूर्वजन्मनः प्रेम्णा बन्धूनिव चतुरः वसन्तदेवादीन् स्वगृहे निनाय नीतवान् // 142 // आसीच्छ्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रमुरिसुगुरुर्विद्यानदीसागरः। तच्छिष्येण कृते गतोऽसमरसः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽयमष्टादशः // 143 //