________________ 298 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः / प्रियसखि ! केशरे ! अहं मदिरा तं प्रियं कामपालं स्वप्नं विना क्वाऽप्यन्यत्र जाग्रतीति भावः न नैव पश्यामि तदेकतानचित्ततया स्वप्ने सोऽनुभूयते, न तु जाग्रत्या, स्वप्नस्य जाग्रच्चिन्तिताऽनुगुणत्वादितिभावः एवञ्च तद्दर्शनं भाग्यादेव.संभावयामि, तदाह- यदि अथवा अतः अस्मात् कालात्परमग्रतः इहास्मिन् जन्मनि, दैवे भाग्ये प्रसन्ने अनुकूले सत्येव ईक्षिष्यतेऽपि तदर्शनसंभावनेति यावत्, ननु मदने तव स्वदुःखकथनेन को लाभ इति चेत्तत्राह- इदमनुभूयमानं हृदि दुःखं हृत्स्थं दुःखं तनकर्तुमल्पीकत्त लघूकर्तुमित्यर्थः तव केशरायाः पुरः प्रोच्यते, कथनेन हृष्टेभ्यो दुःखं लघूभवतीति भावः किञ्च सहानुभूत्या समाश्वासोऽपीत्याह- यथा हि दुःखी स्वयं दुःखितः दुःखं परकीयं दुःखं कलयति मनुते, सहानुभूतेरिति भावः तथा सुखी नैव, समानशीलाभावात्सहानुभूतेरभावादिति भावः // 136 // ____ त्वदधिक दुःखशीलतयाऽपि यथाऽहं धैर्यवती तथा त्वमपि धैर्य समाश्रयेत्याहतदिति-- तत् खेदमाशु विजहीहि मनः प्रसाद-संपादकं सखि ! समाश्रय धैर्यमेव / आराधितो विधिरयं तव शर्मदाता, नैतादृशस्य भवतीह कृतघ्नभावः // 137 // तत्तस्मात्स्वाधिकदुःखितामपि सधैयाँ मां दृष्ट्वा आशु खेदं प्रियाप्राप्तिजं दुःखं विजहीहि त्यज, तथा, सखि ! मनःप्रसादसम्पादकं धैर्यमेव समाश्रय, धैर्येण हि दुःखं सह्यते, मनश्च स्वस्थं भवतीति भावः ननु न धैर्यमात्रणेष्टप्राप्तिरिति चेत्तत्राह- अयं मन्त्रजपात्मकः विधिरनुष्ठानम् आराधितः कृतः सन् तव केशरायाः शर्मदाता इष्टप्रदः, स्यादेवेति शेषः, धैर्यमास्थाय मन्त्र जप, तदेव समर्थयति इहास्मिन् विषये इष्टसाधनविधौ एतादृशस्य मन्त्रानुष्ठानादिप्रकारस्य विधेः कृतघ्नभावः निष्फलत्वं न नैव, भवति अपि तु फलप्रदत्वमेवेति भावः // 137 // अथ कामपालस्य स्वप्रकटनमाह-नीरङ्गीमिति नीरङ्गीमपनीय तामथ जगौ कामः स रङ्गान्विते !, यं त्वं काङ्क्षसि सर्वदा स च पुरा दृष्टपियस्तेऽस्म्यहम् / संयुक्ताऽस्त्यधुना वसन्तसुहृदा सा केशरा त्वं मये वैतस्याऽभिमतं विधेविदधतः किं वा विलम्बो भवेत् // 138 // अथ मदिरोक्तिश्रवणानन्तरम् स केशरारूपः कामः कामपाल: नीरङ्गीमवगुण्ठनमपनीयोत्सृज्य, प्रकटो भूत्वेति यावत् जगौ किमित्याह रंगान्विते ? त्वं मदिरा यं पुरुषं सर्वदा काङ्क्षसि इच्छसि स त्वत्कामनाविषयः पुरादृष्टश्चासौ प्रियश्च स तादृशश्च ते तव अहमहमेवास्मि ननु तर्हि केशरायाः किमिति यत्तत्राह सा तव सखी केशरा अधुना वसन्तेन तदाख्येन सुहृदा प्रियेण संयुक्ता मिलिताऽस्ति, वं मदिरा मया स्वप्रियेण कामपालेनैव, ननु