________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 297 पाऽऽलोकनजं सम्भाषणदर्शनजनितं सुखमासादितम् प्रापम्, ननु तर्हि त्वं कथमसीति चेत्तत्राह पुनः मे मम मदिरया इदं वक्ष्यमाणम् वृत्तमुदन्तोऽतिदारुणमतिभयंकरमतिकठिनं वा, अत एव दुःश्रवम् श्रोतुमपि दुःखं संश्रूयताम्, किन्तदित्याह- स्वालीभिः / निजसखीभिः सह अहं मदिरा एकदा श्रीशङ्खयक्षस्योत्सवे अगमम् गतवती // 133 // ननु तत्र किमभूदित्याकाङ्क्षायामाह -तत्रेतितत्राऽशोकपलाशिपल्लवचयं गृह्णन्तमेकान्ततो, मूलेऽशोकहामद्रमस्य तरुणं मूर्त्या स्मरं प्रैक्षिषि / ताम्बूलं प्रहितं सरागमनसा तस्मै वयस्ये ? मया, तेनाऽहं करुणारसाम्बुनिधिना व्यालेभतो रक्षिता // 134 // तत्र शङ्खयक्षोत्सवे एकान्तत एकान्ते अशोकस्य तदाख्यस्य महाद्रुमस्य मूले अशोकपलाशिनः अशोकवृक्षस्य पल्लवचयं किसलयपुञ्ज गृह्णन्तम् मूर्त्या स्वरूपेण कृत्वा स्मरं कामदेवतुल्यं तरुणं युवानं प्रैक्षिषि दृष्टवती, वयस्ये ! सखि ! मया मदिरया तस्मै यूने सरागमनसा सप्रेमहृदयेन ताम्बूलं प्रहितं सखीद्वारा प्रेषितम् / करुणा एव रसस्तस्याम्बुनिधिना सागरेण तेन तरुणेनाहं मदिरा व्यालान्मत्तादिभतो गजादक्षिताऽगोपि // 134 // ननु ततः किमभूदित्याह-भूय इति-- भूयो व्यालकरीन्द्रभीतिविधुरा नष्टा सखीभिः समं, पश्यन्ती पुनरेव तं बहुतरं प्रैक्षिष्यहं न क्वचित् / वारीमध्यगतेव तत्मभृति च स्तम्बेरमी विस्तृतो द्वेगा माणिमि गाढपञ्जरमिता सारीव दुःखार्दिता // 135 // भूयः पुनः व्यालान्मत्तात्करोन्द्राद्या भीतिस्तया विधुरा पीडिता सखीभिः समं नष्टा पलायिता पुनरेव मुहुर्मुहुः बहुतरं सविशेषं पश्यन्त्यपि अहं मदिरा तं तरुणं क्वचिदपि न प्रैक्षिषि दृष्टवती, तत्प्रभृति तदारभ्य च वारीमध्यगता आलानबद्धा स्तम्बेरमी गजस्त्री इव विस्तृतोद्वेगाऽत्युद्वेगवती गाढे दृढ़े पञ्जरे मिता बद्धा सारी शुकस्त्री इव दुःखेनार्दिता पीडिता प्राणिमि जीवामि, न तु सुखं जीवामि, परतन्त्रत्वात्प्रियवियोगाच्चेति भावः // 135 / / प्रियदर्शनदौलभ्यमाह-विनेति विना स्वप्नं काऽपि प्रियसखि ! न पश्यामि तमहं, प्रसन्ने दैवेऽतः परमपि यदीक्षिष्यत इह / तनूकर्तुं दुःखं हृदि तव पुरः पोच्यत इदं, यथा दुःखी दुःखं कलयति तया नैव हि सुखी // 136 // शा. 38