________________ 296 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ मदिराकृतकेशरासमाश्वासनमाह- तस्येतितस्याग्रे सा निषोदमवददुदयकोष्णनिःश्वासपूर्व किं खेदं केशरे ! त्वं नियतिविनियते कार्यजाते तनोषि ? आस्ते ते जीवितेशः प्रियसखि ! सुकृती श्रीवसन्तः कलावा नित्यश्रौषं सखीभ्यो निजनगरगता सौख्यसम्पत्तिदाभ्यः // 131 // सा मदिरा तस्य केशरारूपस्य कामपालस्याग्रे निषध उपविश्य उदयन् निर्गच्छन् कोष्णः खेदादीषदुष्णः निःश्वासः पूर्वः यथास्यात्तथा उष्णं निःश्वस्येत्यर्थः / इदमवदत्, इदमिति किमित्याह- केशरे ! नियत्या भाग्येन विनियते नियन्त्रिते कार्यजाते कार्यमा सति किं खेदं तनोषि ! न कर्त्तव्यम् , स्वाधीने हि खेदो युक्तः, भाग्याधीने तु खेदान्न कोऽपि लाभ इति खेदस्त्याज्य इति भावः। तत्प्रियवर्णनेन तामाह प्रियसखि ते तव जीवितेशः प्रियः वसन्तः वसन्तदेवः कलावान् कलाकुशलः सुकृती पुण्यवांश्चास्ते इतीत्थम् निजनगरगता स्वपुरस्यैवाहं मदिरा सौख्यस्य सम्पत्तिमाधिक्यं ददतीति ताभ्यः सुखदात्रीभ्यः सखीभ्योऽश्रौषम् // 131 // न केवलं तवैव प्रियवियोगः, किन्तु ममापोत्याह- मयेति-- मया प्रियवियोगजं प्रचुरदुःखमास्वादितं स्वयं खलु वदामि तत तब विधातुमाश्वसनाम् / विधिर्भजति वामतां किल तनोत्यनिष्टं ततो गतोऽयमनुकूलतां सखि ! मनीषितं दास्यति // 132 // मया मदिरयाऽपि प्रियवियोगजं प्रचुरदुःखमतिदुःखम् आस्वादितमनुभूतं खलु, तदनुभूतं दुःखम् तवाश्वसनां मनःशान्ति विधातुं कर्तुं स्वयं वदामि. समानदुःखे ज्ञाते मनोधैर्य बध्नातीति भावः / सखि ! किल यदा विधिः वामतां प्रतिकूलतां भजति श्रयति ततस्तदा अनिष्टं स्वानभिमतं तनोति, ततस्तदनंतरम् अनुकूलतां गतः विधिः मनीषितं स्वाभिमतं दास्यति, इण्टानिष्टे भाग्याधीने इति भावः // 132 // त्वचोऽपि ममदुःखमधिकमित्याह- किञ्चेति-- किश्च त्वं सखि ! वर्णनीयचरिता धन्याऽसि नूनं यथा ___ऽऽलापालोकन सुखं सह मुहुः स्वप्रेयसाऽऽसादितम् / वृत्तं मेऽप्यतिदारुणं पुनरिंदं संश्रूयतां दुःश्रवं, ___स्वालीभिः सममेकदाऽगममहं श्रीशङ्खयक्षोत्सवे // 133 // सखि ! किञ्च त्वं केशरा नूनं निश्चयेन वर्णनीयचरिता स्तुत्यचरिता धन्या धन्यवादाऱ्या चासि, तत्र हेतुमाह- यथा त्वया केशरया स्वप्रेयसा स्वप्रियतमेन सह मुहुः वारंवारम् आला