________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रधोधिनीयुतम् गुण्ठने अन्तर्हितं तिरोहितमास्यं मुखं यस्य स यथा मुखं दृष्ट्वा न कोऽपि लक्षयेदिति भावः तादृशः सन् स्वयमपि स्वयमेवारं शीघ्रं कपाटे अररे उद्घाट्य निरीय कामन्दिरान्निर्गत्य तस्याः केशरायाः सख्या प्रियङ्करया दत्तहस्तः गृहीतकरः सुललितगमनश्चारुगतिमान् स्त्र्युचितगतिमानित्यर्थः / नृवाह्यम् पुरुषवाह्यम् पृथुतरं विशालं याप्यायानं शिबिकामभजत् // 128! अथ तस्य पञ्चनन्दिगृहप्राप्तिमाह-वाहीकैरितिवाहीकैरुह्यमानं प्रथममधिगतं पञ्चनन्दीभ्यगेहे - यानादुत्तार्य वेगात् प्रथमसहचरी स्वर्णवेत्रासनस्थम् / तं प्रोचे केशरे ! त्वं सहृदयहृदयाधीशसंयोगहेतुं __मन्त्रं तिष्ठ स्मरन्ती, भवति हि भविनां मन्त्रतो वाच्छितार्थः॥१२९॥ वाहीकैः तज्जातीयैः शिबिकावाहकपुरुषैः उह्यमानम् शिबिकायां नीयमानम् प्रथमम् तदेव प्रथमं यथास्यात्तथा न तु प्राक्कदापि पञ्चनन्दीभ्यस्य गेहे अधिगतं प्राप्तम् प्रथमा पूर्वोक्ता सहचरी सखी प्रियङ्करा वेगाद् झटिति यानात् शिबिकाया उत्तार्य स्वर्णस्य वेत्रासने तिष्ठतीति तं तादृशं तं कामपालं केशरारूपं प्रोचे; किमित्याह केशरे ! त्वम् सहृदयस्य प्रियस्य हृदयाधीशस्य स्वप्राणेशस्य संयोगहेतुं सङ्गमसाधकं मन्त्रं स्मरन्ती हृदि जपन्ती तिष्ठ, ननु मन्त्रस्मरणेन किमिति चेत्तत्राह हि यतः भविनां प्राणिनाम् मन्त्रतः मन्त्रस्मरणतः वाञ्छितार्थः भवति अभीष्टसिद्धिर्भवति, मन्त्रस्यालौकिकशक्तिमत्त्वादिति भावः // 129 // . अथ मदिरायास्तत्रागमनमाह- तदिति-- तद्वाक्यश्रवणादनन्तरमसौ तस्यां गतायां तदा मन्त्रं कामरतीष्टसङ्गमकरं नामाऽस्मरत् सोऽप्यलम् / तत्कान्ता मदिराऽपि मातुलसुता श्रीकेशरायास्तदा ऽऽहूता शङ्खपुरादिहाऽऽगमदरं पाणिग्रहस्योत्सवे // 130 // असौ केशरारूपः स कामपालोऽपि तस्याः प्रियङ्कराया वाक्यस्य श्रवणादनन्तरं तस्यां प्रियङ्करायां गतायां सत्याम् तदा कामस्य रतेश्च इष्टं सङ्गमकर सङ्गमसाधकशक्तिमन्तं मन्त्रं अलमत्यर्थम् अस्मरन्नाम, नामेतिवाक्यालङ्कारे तदा तस्मिन्काले तस्य कामपालस्य कान्ता प्रिया श्रीकेशरायाः मातुलस्य सुता मदिरा अपि पाणिग्रहस्य केशराविवाहस्योत्सवे आहूता आमन्त्रिता सती अरं शीघ्रमेव शङ्खपुरादिह पञ्चनन्दिगृहे आगमदागता // 130 //