________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सम्प्रति करणीयमाह-पतदिति- एतम्मित्रपवित्रमन्त्रवशतोऽत्र पाक् प्रविश्य स्थित ___ स्त्वां प्रापं किल तज्जिहीपुरधुनाऽहं कामदेवाज्ञया / तन्नेपथ्यमशेषमस्य निजकं प्रीत्या भवत्याऽर्ण्यतां, ___येन द्राक परिधाय तत्तव पितुर्वेश्माऽधितिष्ठत्ययम् // 126 // एतस्य प्रत्यक्षस्थितस्य मित्रस्य कामपालाख्यस्य पवित्रस्य निरन्तरा यस्य कार्यसाधकस्य च मन्त्रस्य परामर्शस्य वशतः प्रभावतः प्राक् पुरा एवात्र मन्दिरे प्रविश्यागत्य स्थितः अहं तत् स वसन्तदेवः कामदेवाज्ञया मन्दिरस्थदेवाज्ञया कामातुरतया वा त्वां केशरां जिहीषु हर्तुमिच्छुः अधुना प्रापं प्राप्तोऽस्मि, किलेति हर्षे, त्वां प्राप्य हृष्टोऽस्मीत्यर्थः / तत्तस्मात्तव हरणीयत्वाद्धेतोः भवत्या केशरया प्रीत्या, न तु बलादित्यर्थः / निजकं स्वकीयमशेषं समस्तं नेपथ्य वेषपरिधानमस्य कामपालस्यार्प्यताम् दीयताम् , येन त्वन्नेपथ्यदानेन हेतुना अयं कामपालः द्राक् तन्नेपथ्यं परिधाय गृहीत्वा, त्वद्वेषमाधायेत्यर्थः तव पितुः पञ्चनन्दिनः वेश्म गृहमधितिष्ठति अधिश्रयति // 126 // ननु तदनन्तरमावयोः किं कर्त्तव्यमिति चेत्तत्राह त्वदितितन्नेपश्यभृताऽमुना तव गृहे तन्वनि ! चाङ्गीकृते यास्यावो निशि नौ निरीय नगरं सौख्याप्तये स्वेप्सितम् / .. श्रुत्वैवं निजवेषमार्पयदियं सा कामपालाय तं, देवं काममनुस्थितः सह तया हृष्टो वसन्तोऽप्यथ // 12 // सन्वङ्गि ! मृद्वनि ! त्वन्नेपथ्यभृता गृहीतत्वद्वेषेणामुना कामपालेन तव गृहे अङ्गीकृते प्राप्ते च नौ त्वञ्चाहञ्चेत्यावाम् निशि रात्रौ निरीय ते मन्दिरान्निर्गत्य सौख्याप्तये सुखप्राप्तये स्वेप्सितं निजेष्टं नगरं यास्यावः, एवमुक्तप्रकारं श्रुत्वा इयं सा केशरा कामपालाय निजवेषमार्पयदत्तवती, अथानन्तरं वसन्तः वसन्तदेवोऽपि तया केशरया सह तं मन्दिरस्थं कामं देवमनु कामदेवमूर्तेः पश्चाभागे स्थितः सन् हृष्टः हर्षमाप्तवान् // 127 // अथ कामपालस्य ततो निर्गमनमाह-पुष्पौधैरितिपुष्पौधैः पूजयित्वा परिमलकलितैः कामदेवं प्रकामं, नोरङ्ग्यन्तर्हितास्यः सुललितगमनः केशराकल्पकल्पः / उद्घाटयाऽरं कपाटे स्वयमपि रुचिरः कामपालो निरीय, तत्सख्या दत्तहस्तः पृथुतरमभजद् याप्ययानं नृवाद्यम् // 128 // रुचिरः सुन्दरः कामपालः केशरायाः कल्पः नेपथ्यमेव कल्पो नेपथ्यं यस्य स तादृशः केशरारूपः सन् परिमलकलितैः सुरभिभिः पुष्पौधैः कामदेवं प्रकाममतिशयेन पूजयित्वा निरयाम् अव