________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 293 वसन्तस्य तदाख्यस्य स एव वा मित्रं यस्य स तादृशः अत्रास्मिन् जन्मनि स वसन्तदेवः जन्मान्तरेऽपि एनं वसन्तदेवमेव प्रियं देयाः देहीत्याशासे, अपरं पतिं वसन्तदेवादन्यं न मृगये इच्छामि, अत्र वसन्तमित्रस्य वसन्तदानं सम्भवितमपि निषिध्यते इति विरोधालङ्कारो ध्वन्यते इति // 122 // अथ तस्या आत्मघातप्रयासमाह इत्याधुदित्वेति इत्याधुदित्वा किल तस्य तोरणे निबध्य पाशं लघु यावदाग्रहात् / उद्बन्धनं कर्तुमियेष केशरा स तावदाविर्भवति स्म तत्पुरः // 123 // इत्याधुक्तप्रकारमुदित्वोक्त्वा केशरा, किलेत्यलीके, तस्य काममन्दिरस्य तोरणे आग्रहाद् हठपूर्वकम् यावल्लघु शीघ्र पाशं निबध्य उद्बन्धनं स्वकण्ठोबन्धनं कर्तुमियेष प्रचक्रमे तावत्तस्याः पुरोऽग्रे स वसन्तदेवः आविर्भवति स्म प्रकटोऽभूदित्यर्थः // 123 // अथ तस्या माश्चर्यमाह-मेति मा साहसं तन्वि ! वितन्विति स्वयं निवेद्य तत्पाशमसौ व्यसूत्रयत् / कस्मादकस्मात् समुपागतः पतिर्ममेति चित्रं बिभराम्बभूव सा // 124 // तन्वि ! कृशाङ्गि ! साहसमविमृश्यकारित्वं मा न वितनु कुरु इति इत्थं निवेद्य कथयित्वा असौ वसन्तदेवः स्वयमात्मनैव तत्पाशं केशरागलबद्धं पाशम् व्यसूत्रयदुदमोचयत् / सा केशरा च कस्मात्कुतः अकस्मादतर्कित एव मम पतिः प्रियो वसन्तदेवः समुपागत इति इत्थं चित्रमाश्चर्य बिभराम्बभूव चकार // 124 // अथ वसंतदेवोक्तिमाह-ऊचे इतिउचे वसन्तेन सतेदृशं च सा प्रिये ! प्रियस्तेऽस्मि स विप्रियोज्झितः। एतद् यदर्थ निरमायि साहसं त्वया किमन्यत् तव वाऽस्ति दुर्घटम् ? // 125 // सता सज्जनेन वसन्तेन वसन्तदेवेन च सा केशरा ईदृशमूचे कथिता, ईदृशमिति किमित्याह प्रिये ! विप्रियेनानर्थेन उज्झितः रहितः स कुशल इति यावत् , स ते प्रियो वसन्तदेवोऽस्मि, अहमिति शेषः / स क इत्याह यदर्थ यं वसन्तदेवमुद्दिश्य त्वया केशरया एतदाःमघातरूपम् साहसं निरमायि कृतम् , वा अथवा तव केशरायाः अन्यदात्मघातादितरकि दुर्घटम् दुष्करमस्ति ? न किमपीत्यर्थः या आत्मघातमपि कर्तुं प्रभवति / सा अन्यदपि सर्वं कर्तुं प्रभवतीति भावः // 125 //