________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सामर्थ्यमुक्तम् / विष्टपत्रयं भुवनत्रयं निर्जितं वशीकृतम् तावकं कामदेवस्य तव एतत्प्राकाम्यं प्राबल्यं प्रकामं यथेष्टमालोक्यते दृश्यते एव / / 118 // अथ साम्प्रतं कामस्यालध्यशासनत्वमाह ब्रह्मेशेति ब्रह्मेशनारायणमुख्यनिर्जरा न शासनं लक्षयितुं क्षमास्तव / अन्यः प्रतापस्तव को विवर्ण्यते विवर्ण्यमानाद्भुतवीर्यवैभव ? // 119 // . विवर्ण्यमानम् कीर्तनीयमद्भुतं वीर्य पराक्रमो वैभवः प्रतापश्च यस्य स तादृशः, तत्सम्बोधने स्तुत्यप्रताप ! ब्रह्मा ईशः शिवः नारायणो विष्णुश्च मुख्यं येषाम् ते तादृशा निर्जरा देवाः तव कामदेवस्य शासनमाज्ञामुल्लचयितुम् न क्षमाः समर्थाः / सर्वे एव कामपरवशा इत्यर्थः / एवञ्च अन्य उक्तादन्यः कः प्रतापस्तव वय॑ते ? उक्तः प्रताप एवातिमहान्, ततोऽन्यस्त्वं वर्णनीय एवेति भावः // 119 // अथ स्वाशयं निवेदयति वस्तुरिति वस्तुः स्वरूपं तनया विजानते यथार्थमित्यत्र न कोऽपि संशयः / स्वामिन् ! मनोभूर्मम मानसं विदन्ननिष्टभ; सह मां न योजय // 120 // . तनयाः पुत्राः वस्तुः पितुः जनयितुरित्यर्थः, स्वरूपमाशयं यथार्थ एव विजानते जानन्ति इत्यत्र विषये संशयो न, अपितु निश्चय एव, अत एव, स्वामिन् / मनोभूः ! मम मानसं विदन् जानन् , मनोजन्यत्वात्तव पितुर्मनसः पुत्रत्वात्कामस्य तत्स्वरूपज्ञत्वादुक्तहेतोरिति भावः मां केशराम् अनिष्टेन अनभिमतेन भ; सह न योजय // 120 // अथोपाम्भमाह काममिति कामं समेषां सफलं करोषि चेति ते प्रवादः प्रथितो जगत्त्रये / भर्ता त्वया नैव स मे प्रदीयते तदत्र भाग्यं मम किं विगीयते // 121 // ? ते तव कामदेवस्य समेषां सर्वेषां काममिच्छां सफलं करोषि च इतीत्थम् प्रवादः जनश्रुतिः जगत्त्रये प्रथितः ख्यातः, अस्तीति शेषः / किन्तु तादृशेन त्वया मम स भर्ता वसन्तदेवः न प्रदीयते तत्ततोऽत्र मम भाग्यं विगीयते निन्यते किम् ? मम मन्दभाग्यतया एवैवं भवतीति भावः // 121 जन्मान्तरेऽपि स पतिर्भवत्वित्याह विश्राणित इति विश्राणितो जन्मनि नात्र मे पतिर्वसन्तदेवः स वसन्तमित्र ! चेत / जन्मान्तरेऽपि प्रियमेनमेव मे रतीश देया मृगये न चापरम् // 12 //