SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 291 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 291 अंथ तया मन्दिरद्वारपिधानमाह-पकैवेति एकैव सा मन्मथदेवमन्दिरान्तरं विवेशाऽऽलिनिषिद्धबालिका / कल्पोऽयमित्युज्झितसंशया ददौ स्वपाणिना तस्य कपाटसम्पुटम् // 115 // केशरा आल्या सख्या निषिद्धा प्रविशन्ती निवारिता बालिका अन्या कुमारिकादिर्यस्याः सा तादृशी, अत एव एका एकाकिनी एव मन्मथदेवमन्दिरान्तरं विवेश, तथा कल्पोऽयम् एष विधिरित्यतः उज्झितसंशया संशयरहिता सती स्वपाणिना तस्य मन्दिरस्य कपाटसम्पुटम् ददौ द्वारं प्यधादित्यर्थः द्वारं पिधाय कामार्चनस्य विहितत्वान्निःसंशयं तथा चकारेत्यर्थ // 115 // अथ तस्याः कामपूजनमाह-आनीतेति आनीतनैवेद्यसुमादिसंचयै-रनगमुद्दिश्य महीतले कनी / प्रक्षिप्य साध विरहाऽऽतुरा ततः कृताञ्जलिाहरति स्म चेदृशम् // 116 // सा कनी कन्या केशरा अनङ्गम् कामदेवमुद्दिश्य आनीतैः नैवेद्यैः मधुरादिफलादिभिः सुमादिना पुष्पादिना संचयैश्च महीतले भूमौ अयं पूजार्थजलं प्रक्षिप्य ततः अर्घ्यदानानन्तरम् विरहातुरा प्रियवियोगपीडिता सती कृताञ्जलिरञ्जलिं बध्वा ईदृशं वक्ष्यमाणप्रकारं व्याहरति कथयति स्म च प्रार्थयति स्मेति यावत् // 116 // - तद्वयाहृतिमेवाह-वृन्दारकेति वृन्दारकाधीश्वरमान्यशासन ! प्रवृद्धसारासुरनाथसेवित ! . लक्ष्मीमनोऽम्भोजविकाशभास्कर ! प्रभो ! जय त्वं रतिजीवितेश्वर ! // 117 // वृन्दारकाधीश्वरेण देवेन्द्रेणापि मान्य शासनमाज्ञा यस्य स तत्सम्बुद्धौ, देवेन्द्रपूजित ! प्रवृद्धसारैरतिबलवद्भिः असुरनाथैः असुरेन्द्रैः सेवितः लक्ष्मीमनोऽम्भोजस्य लक्ष्णीढत्कमलस्य विकाशे विकाशने भास्करः सूर्य इव, लक्ष्मीपुत्रत्वात्कमलस्येति भावः / रत्याः तदाख्यप्रियायाः जीवितेश्वर ! . पते ! प्रभो ! वं जय सर्वोत्कर्षेण वर्तसे // 117 // अथ तत्सामर्थ्य वर्णयति पौष्पैरिति पौष्पैः शरैः पञ्चभिरेव विष्टपत्रयं त्वया निर्जितमीश ! हेलया। प्राकाम्यमेतद्भुवनत्रयातिग? प्रकाममालोक्यत एव तावकम् // 118 // ईश ! स्वामिन् ! भुवनत्रयातिग ! लोकत्रयोत्तम ! त्वया कामदेवेन हेलया अप्रयासेनैव पौष्पैः पुष्पनिर्मितैः पञ्चभिः शरैरेव, आस्तां बहुभिः लौहादिमयैरिति भावः, ऐतेनेतरासाधारणं
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy