________________ 290 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः ततः गृहगमनानन्तरम् वैकालिकाद्यम् विकालभवस्नानादिसंविधि क्रियां प्रविधाय समाप्य विकालवेलासमये शुभमुहूर्ते इत्यर्थः सकेतने सध्वजे मीनध्वजस्य कामदेवस्य आयतने मन्दिरे गतौ प्राप्तौ तौ कामपालवसन्तदेवौ स्मरस्य कामस्य मूर्तेः बिम्बादनुपृष्ठभागे तिष्ठतः स्म यथा न कोऽपि पश्येदिति भावः // 111 // अथ केशराऽऽगमननिश्चयमाह-माङ्गल्येति माङ्गल्यतूर्यस्य निनादमुच्चकैर्वितत्य ताभ्यां श्रवणातिथेयताम् / तस्याः समायातमिलोवंशीश्रियस्तदेकहृद्भ्यां निरचायि चेतसि // 112 // माङ्गल्यस्य मङ्गलसूचकस्य तूर्यस्य वाद्यस्य उच्चकैरुच्चैः निनादं ध्वनिम् श्रवणयोरातिथेयताम् वितत्य, श्रुत्वेत्यर्थः / तस्याम् केशरायामेवैकमेकमात्रम् हृदयम् ययोस्ताभ्याम् केशरामेव चिन्तयभ्याम् ताभ्याम् कामपालवसन्तदेवाभ्याम् चेतसि स्वमनसि इलायां पृथिव्यामुर्वशी अप्सरोविशेषः तस्याः श्रीरिब श्रीर्यस्यास्तस्याः केशरायाः समायातं समागमनं निरचायि निश्चितमनुमितमित्यर्थः // 112 // अथ केशरायाः काममन्दिरागमनमाह-मन्त्रमिति मन्त्रं महादेवमनोभवोदितं स्वयं स्मरन्ती प्रिययोगकारणम् / द्वाराङ्गणं सा स्मरदेवसद्मनः समाससादाऽथ समीहितमदम् // 113 // अथानन्तरम् सा केशरा समीहितप्रदम् अभीष्टसाधकम् प्रियेण योगस्य सङ्गमरूपस्य कारणम् साधनम् महादेवस्य शम्भोर्मनसो भवेन कामदेवेनेत्यर्थः, शम्भुर्हि तृतीयनेत्राग्निना दग्धं कामं रतिप्रार्थनातः प्रसह्य पुनः स्वमनसा एव तमुत्पादितवानिति पौराणिकीकथाऽत्रानुसंधेया, यद्वा महादेवेन सर्वजगदशीकरणहेतुना देवश्रेष्ठेन, मनोभवेन कामदेवेनोदितमुक्त मन्त्रं स्वयं स्मरन्ती काममन्त्रं जपन्तीत्यर्थः / स्मरदेवस्य कामदेवारव्यदेवस्य सद्मनः मन्दिरस्य द्वारे यदङ्गणं तत्समाससाद प्राप // 113 // अथ तस्याः पुष्पादिग्रहणमाह-उच्चैरिति उच्चैर्विमानादथ देवतेव सा मनुष्यवाह्यादवतीर्यवर्यरुक / आदत्त पुष्पादिचयं प्रियङ्कराकरादनङ्गं भगवन्तमचितुम् // 114 // अथ द्वाराङ्गणप्राप्त्यनन्तरं वर्यरुगुत्तमच्छविः सा केशरा देवताविमानादेव उच्चैः मनुष्यवाह्याद्विमानात् शिबिकादितः अवतीर्य भगवन्तमनङ्गं कामदेवमचितुम् प्रियङ्कराकरात् पुष्पादिचयमादत्त गृहीतवती // 114 //