________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 282 अभ्यर्णचर्यासमीपस्थया अवनिदेवभार्यया ब्राह्मण्या जरत्या वृद्वया निर्मितम् कृतं क्षुतं छिक्कां निशम्य तदा मुदा तत्क्षुतस्य शुभशकुनत्वात्सहर्षम् कामपालः तं वसन्तदेवं न्यगदत्, किमित्याह-मित्र ! मे मम कामपालस्य अत्र प्रागुक्तकार्ये मनागपि व्यसनं विघ्नो न, अस्तीति शेषः, तथा शकुनलाभादिति भावः // 107 // किञ्च परोपकारिणो लाभ एव न तु हानिरित्याह-किञ्चेति किश्च त्वदर्थाऽऽहितबद्धचेतसो ध्रुवं ममाप्यभ्युदयो भविष्यति कि श्रूयते नैव यशः सुखं श्रुतौ विनिर्मिमाणस्य परप्रयोजनम् ? // 108 // किञ्च त्वदर्थस्य त्वत्प्रयोजनस्य आहितावधाने, करणे इत्यर्थः, बद्धचेतसः संलग्नमनसो मम कामपालस्यापि ध्रुवमभ्युदयः शुभप्राप्तिभविष्यति, तत्र शास्त्रं प्रमाणयति-किं श्रुतौ शास्त्रे नैव श्रूयते ? अपि तु श्रूयत एव, क्रिमित्याह-परप्रयोजनम् परस्य कार्य विनिर्मिमाणस्य कुर्वतः परोपकारं कुर्वत इत्यर्थः, यशः सुखं चेति // 108 // अथोभयोरिष्टसिद्धौ निमित्तान्तरमाह-किञ्चिदिति कश्चिज्जरबाह्मणकोविदस्तदा जगाविदं कस्य च नाऽपि संमुखम् / विज्ञैवमेवेति न संशयस्त्वया विधेय एवाऽत्र विधेय ईदृशे // 109 // तदोभयोरुक्तप्रकाराऽपलापसमये कश्चिज्जरन् वृद्धः ब्राह्मणकोविदः सुधीाह्मणः कस्य चनाऽपि पुरुषस्य सम्मुखम् इदं जगौ इदमिति किमित्याह विज्ञ ! धीमन् ! इति युवयोविमर्शः एवमेव इत्थमेव सम्पत्स्यते अत्रेदृशे त्वदुक्तप्रकारे विधेये कार्ये संशयः नैव विधेयः कार्यः // 109 // . अथ वसन्तदेवस्य गृहगमनमाह-श्रुत्वेति श्रुत्वा तदुक्तेः सदृशीमुपश्रुतिं वसन्तदेवः सुहृदाऽमुना समम् / ग्रन्थिं स्ववस्त्रे शकुनादिमं ततो निवध्य गेहं मुदितः समागमत् // 110 // तस्य कामपालस्योक्तेः सदृशीमुपश्रुतिम् प्रतिध्वनिम् श्रुत्वा वसन्तदेवः अमुना सुहृदा मित्रेण कामपालेन समं सह ततः उक्तात् शकुनाद्धेतोः स्ववस्त्रे इमं ग्रन्थि निबध्य शकुनौ सत्याम् वस्त्रग्रन्थि ददतीत्याचार इति भावः मुदितः गेहं समागमत् // 110 // मथ तयोः काममन्दिरगमनमाह-वैकालिकाद्यमिति वैकालिकाद्यं प्रविधाय संविधि विकालवेलासमये ततो गतौ / मीनध्वजस्यायतने सकेतने स्मरस्य मूर्तेरनुतिष्ठतः स्म तौ // 111 // शा. 37