________________ 288 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथाग्रिमकर्तव्यमप्याह-तत्रवेति तत्रैव तस्याः कुसुमेषुमन्दिरे प्रवेशनिष्ठाक्षण एव वेगतः। स्वीकृत्य वेषं तदगारमाश्रितस्तदिङ्गितैर्मोहयितास्मि तत्कुलम् // 104 // तत्र कुसुमेषुमन्दिरे काममन्दिरे तस्याः केशरायाः प्रवेशनिष्ठाक्षण एव प्रथमप्रवेशकाले एव वेगतो झटिति वेषम् केशराया एव नेपथ्यं स्वीकृत्य गृहीत्वा तदगारमाश्रितः काममन्दिरस्थः तस्याः केशरायाः इङ्गितः चेष्टादिभिः केशराचेष्टानुरूपचेष्टाभिः तस्याः केशरायाः कुलम् परिवारजनम् काममन्दिरम् वा, उपचारात्तत्स्थलोकम् मोहयितास्मि वञ्चयितास्मि, यथेयं केशरा नेति न जानीयाल्लोक इति भावः // 104 // अथान्तर कर्त्तव्यमाह-तदिति तद्वेश्ममार्गे मयका समाश्रिते भवांस्ततस्तां परिगृह्य गृध्रवत् / मांसस्य पेशीमिव पत्तनान्तराऽयनं समासाध समीहितं क्रियात् // 105 // मयका मया कामपालेन तस्याः केशरायाः वेश्ममार्गे गृहमार्गे समाश्रिते याते सति ततोऽनन्तरम् गृध्रवद् गृध्रतुल्यो भवान् तां केशराम् मांसस्य पेशी खण्डमिव परिगृह्य गृहीत्वा पत्तनान्तरस्य नगरान्तरस्यायनं मार्ग गृहं समासाद्य प्राप्य समीहितं यथेष्ट क्रियां कर्तुं प्रभवेत् // 10 // अथ तत्रानिष्टशङ्कामाह-ईगिति ईदृसुधासारवचोभिरुक्षितः प्रयाततापः स तमब्रवीदथ / एवं मम स्वस्ति समस्ति किन्तु ते वितर्कयामि व्यसनोग्रसंकटम् // 106 // अथानन्तरम् ईदृग्भिरुक्तप्रकारैः सुधासारैः अमृतकल्पैः वचोभिरुक्षितः सिक्तः, तृप्त इति यावत् / अत एव प्रयाततापः गतदुःखः, अमृतसेकस्य तापनाशकत्वमुचितमेवेति भावः / स वसन्तदेवः तम् कामपालमब्रवीत् , किमित्याह-एवं त्वदुक्तप्रकारेण मम स्वस्ति कल्याणं. समस्ति सम्भवति, किन्तु ते तव व्यसनेन दुरुपायेनोग्रमुत्कटं सङ्कटमनर्थं वितर्कयामि, केशरारूपः पुरुषोऽयमिति ज्ञातः निगृहीतः स्या इति संशेते मम मन इति भावः // 106 // कामपालप्रतिवचनमाह-अभ्यर्णेति अभ्यर्णचर्याऽवनिदेवभार्यया भुतं जरत्या विनिशम्य निर्मितम् / तं कामपालो न्यगदत् तदा मुदा न मेऽत्रमित्र ! व्यसनं मनागपि // 107 //