________________ __ आ० विजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 287 स्य ? मित्र ? तत्तस्मान्मदृष्टान्ताद्धेतोः त्वं वसन्तदेवः धृति धैर्यमेव संश्रय, ममेव, न तु प्राणान् जही-हीति भावः // 10 // अथ प्रियासङ्गमे उपायोऽप्यस्तीत्याह-किञ्चेति किश्चास्त्युपायोऽप्यनपाय एव ते, सखे ! प्रियासङ्गमसाधनेऽधुना / आस्वादिताऽशर्मभरोऽहमीदृशं, हितं ब्रुवे त्वां न तु मा मृथा वृथा // 101 // सखे ! अधुना ते तव प्रियायाः सङ्गमे अनपायः निर्विघ्नः फलसाधनसमर्थ इति यावत् , उपायोऽप्यस्त्येव, आस्वादितोऽनुभूतोऽशर्मभरो दुःखातिशयो येन स तादृशः अहम् कामपालः त्वत्समानुभूतिमान् त्वं वसन्तदेवम् ईदृशमुक्तप्रकारं हितं हितवचनं ब्रुवे कथयामि, न तु वृथा मोघम् , अननुभवे हि हितं कथनं कदाचिद् वृथाऽपि सम्भाव्यते इति भावः / अतः मा मृथाः प्राणान् त्यजस्व // 101 // अथ प्रियासङ्गमोपायमेवाह-कल्ये इति कल्ये विवाहो भवितेति सैकिका, रतिप्रियं पूजयिताऽध सप्रियम् / कल्पोऽयमाकल्पमितीडचहेतुना, न शस्यते कल्पविलोपकोऽत्र यत् // 102 // कल्ये श्वः विवाहो भविता इति हेतोः सा केशरा एकाकिन्येवाद्य सप्रियम् प्रियया रत्या सहितम् रतिप्रियं कामदेवं पूजयिता पूजयिष्यति, ननु त्वया कथमेतन्निश्चीयते इति चेत्तत्राह-यद्यतः आकल्पम् कल्पान्तपर्यन्तमयं कामपूजारूपः कल्पो विधिः, विवाहात्प्रथमदिने कामपूजा स्त्रीणां सनातनो विधिरिति भावः, ननु कुतश्चित्कारणात्तदभावोऽपि सम्भाव्यते इतिचेत्तत्राह-यद्यतः इति इडयेन प्रशस्येन हेतुना पूजायाः सनातनत्वहेतुनाऽऽवश्यकेन अत्रविषये कल्पविलोपकः कामपूजारूपविधिविरोधी न शस्यते आद्रियते, विरोधे सत्यपि विधिं कुर्वन्त्येव स्त्रियः, न तु त्यजन्तीति भावः // 102 // ननु ततः किमिति चेत्तत्राह-तदिति तत्पूर्वमेवाद्य परैरवीक्षितौ, प्रविश्य सन्ध्यासमये समाहितौ / / कामालये कामितकल्पपादपे, निलीय तिष्ठाव उदग्रविक्रमौ // 103 // तत्तस्माद्धेतोरद्य सन्ध्यासमये पूर्व पूजार्थं तदागमनात्प्रागेव परैरन्यै नैरवीक्षितौ यथा न दृष्टौ स्यावः तथा कामितकल्पपादपे अभिलषितसिद्धकल्पद्रुमोपमे कामालये काममन्दिरे प्रविश्य उदप्रविक्रमौ अतिपराक्रमशालिनावावाम् समाहितौ सावधानौ निलीय तिरोधाय तिष्ठाव स्थास्यावः // 103 //