________________ MMAnmAAAAA 286 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ तत्र गजशीकरागमनमाह - निन्ये इति निन्ये सखीभिः पुनरेव तत्र सा रसालकुब्जे सरसालसायना / भूयः समायासिषुराशुगेरित-स्तदैव तत्र द्विपशीकरः परे // 97 // पुनरेव सा मदिरा सरसम् अलसं मन्दं चायनं गमनं यस्याः सा तादृशी सती तत्र रसालकुन्जे सखिभिः निन्ये प्रापिता' तदा, एव भूयः पुनरपि आशुगेरितः पवनप्रेरितः "गन्धवाहानिला शुगा" इत्यमरः परे बहवः द्विपशी कराः गजहस्तमुक्ताम्बुकणाः तत्र रसालकुञ्ज समायासिषुरा-. गताः // 97 // अथ तासां पलायनमाह-तस्या इति तस्या वयस्यास्तदनन्तरं ययु-दिशो दिशं साध्वससंकुलाशयाः। कुत्राऽपि सा स्त्रैणमतल्लिका गते-त्यहं समन्तात् सुतमां व्यलोकयम् // 98 // तस्याः मदिरायाः वयस्याः सख्यः तदन्तरं शीकरागमनान्तरम् साध्वससंकुलाशयाः भयव्याकुलितचेतसः सत्यः दिशः एक त्या दिशः दिशमपरां दिशं ययुः अस्तव्यस्तं पलायिता इत्यर्थः / सा स्त्रैणमतल्लिका प्रशस्तयोषित्समूहः कुत्रापि क्वापि गतेत्यहं समन्तात्सर्वतः सुतमा चारुतया व्यलोकयम् // 98 // अथ तासामदर्शनमाह-नेति-. . नाऽऽलोकि कर्पूरशलाकिकेव सा, पुनर्मया तापविभेदिनी दृशोः / जीवाम्यहं मित्र ! तथापि निष्ठुरः, कदाशया विघ्नितजीवनिर्गमः // 99 // सा स्त्रैणमतल्लिका मदिरा वा दृशोः ममावणे तापविभेदनी दर्शनाभिलाषारूपतापसंशमनी पुनः मया कामपालेन कर्पूरशलाकिका कर्पूरखण्ड इव, न आलोकि दृष्टा, कर्पूरो हि पवनसम्पर्काद्विलीयादृश्यतां यातीति भावः मित्र ! तथापि तादृशप्रियतमावियोगेऽपि निष्ठुरः कर्कशहृदयः सन् कदाशया सा मिलिष्यतीति दुराशावशतः विनितजीवनिर्गमः प्राणान् त्यजन्नेवाहं कामपालः जीवामि, न तु त्वमिव प्राणान् त्यजामीति भावः // 99 // अथोपसंहरति-उन्मत्तेति उन्मत्तरूपी मदिराऽभिधानतोऽ-प्यहं तदादि क्षितिमण्डले भ्रमन् / अत्रागमं सम्यगुपायवर्जितो, वयस्य ! तत् त्वं धृतिमेव संश्रय // 100 // तदादि तत्प्रभृति मदिराभिधानतोऽपि मदिरानाममात्रत एव क्षितिमण्डले पृथिव्यां उन्मत्तरूपः उन्मत्त इव भ्रमन् सम्यगुपायवर्जितः मदिराप्राप्तिसाध्यकसाधनरहितः अत्र तव समीपे आगमम्, वय