________________ 285 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ स्वस्थ हस्तिताडनमाह- हस्तेनेति - हस्तेन हस्ती नलिनीमिवाशु तां कनी समाकर्षति यावदस्तभीः / तावद् निजघ्ने मयका स पेचके प्रपञ्चतः स्थूलतमेन दारुणा // 93 // अस्तभीः निर्भीकः हस्ती नलिनी कमलिनीमिव तां कनी हस्तेन स्वशुण्डया यावदाकर्षति तावदाशु झटित्येव मयका मया कामपालेन प्रपञ्चतः विशिष्टोपायतः स्थूलतमेन दृढ़ेन विशालेन च दारुणा काष्ठेन स हस्ती पेचके पुच्छमूले "पुच्छमूलं तु पेचकः” इत्यभिधानचिन्तामणिः / निजध्ने हतः // 93 // अथ स्वस्य कनीमादाय ततो गमनमाह-रोषेति रोपाठिचतः सोऽपि विहाय योषितं बलाभिमानाद् बलते स्म मां प्रति / तं वञ्चयित्वाऽहमपीभशिक्षया कनी समादाय ययावितोऽन्यतः // 94 // स हस्ती अपि रोषाञ्चितः क्रुद्धः सन् योषितं तां कनी विहाय बलाभिमानालदर्पाद् मां कामपालं प्रति बलते सम्मुखं चागच्छति स्म, अहं काकपालोऽपि इभशिक्षया गजविध या निपुणतयेत्यर्थः / तं गजं बञ्चयित्वा छलयित्वा कनी समादाय इतः आत्रकुञ्जादन्यतोऽन्यत्र ययौ गतवान् // 94 // अथ तस्या एकान्ते स्थापनमाह- त्रैलोक्येति त्रैलोक्यमुभूजनकामनीयकं रुचा जयन्तीं विजने मुमोच ताम् / एकान्त एवाऽऽसितुमक्षम ततो मया समं तद्धृदयं समागमत् // 95 // . . रुचा स्वकान्त्या कृत्वा त्रैलोक्यस्य सुभ्रूजनानां योषितां कामनीयकं सौन्दर्य जयन्ती तां कनीम् विजने एकान्ते उपद्रवशून्यस्थान इति यावत् मुमोच स्थापयामास, अहमिति शेषः ततस्तदनन्तरम् एकान्ते आसितुं स्थातुमेवाक्षममसमर्थमिव तस्याः कन्याया हृदयं मया कामपालेन समं सह समागमत् , तस्या मनो मयि विशेषतः समासक्तमित्यर्थः // 95 // .. अथ परिच्छदकृतस्वप्रशंसामाह- स्तम्बेरमे इति स्तम्बेरमे जग्मुपि तत्परिच्छदः समागतस्तत्र पुनः समन्ततः / बुवा सुबुद्धिमदिराऽमुदायिनं मुहुमुहुमी प्रशशंस संमदात् // 96 // स्तम्बेरमे गजे जग्मुषि गतवति सति तत्रोद्याने तस्याः कन्याः परिच्छदः परिजनः पुनः समन्ततः सर्वतः समागतः तथा सुबुद्धिः धीमान् परिच्छदः मदिरायाः तन्नामककन्याः असुदायिनं प्राणरक्षकं मां बुधवा ज्ञात्वा संमदाद् हर्षात् मां कामपालं मुहुर्मुहुः प्रशशंस // 16 //