SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 284 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ स्वकर्तव्यचिन्तामाह-तच्चेति तच्चाऽऽददानः स्वकरेण मानसे विचिन्तयामास मुदाऽहमीदृशम् / किश्चिद् ममाऽपि प्रतिदातुमौचिती प्रतीयते मे कृपणत्वमन्यथा // 89 // अहं कामपालः मुदा हर्षपूर्वकं तद्वीटकं स्वकरेणाददानः गृह्णश्च मानसे ईदृशं विचिन्तयामास; ईदृशमिति किमित्याह ममाऽपि किञ्चित्प्रतिदातुमौचिती औचित्यम्, अन्यथा मे मम कृपणत्वं प्रतीयते व्यज्यते / 89 / / अथ तदा तत्र मत्तगजागमनमाह- आलानमिति आलानमुन्मूल्य तदा क्षरन्मदः समागमद् कश्चन तत्र वारणः / उच्छङ्खलस्त्रोटितलोहशृङ्खलः कृतान्तयानभ्रममादिशन्निव // 90 // तदा मयि कामपाले तथा विचारयति सति, क्षरन्मदः मदस्रावी कश्चन वारणो गजः आलानं बन्धनस्तम्भमुन्मूल्योत्पाट्य त्रोटितम् भिन्नम् लोहशृङ्खलमन्दुकं येन स तादृशः, अत एव उज्छृङ्खलः निगडरहितः, असाध्य इति यावत् / कृतान्तस्य यमस्य यानभ्रमं वाहनभ्रममादिशन् कारयन्निव तत्रोद्याने समागमत् // 90 // अथ गजभयेन परिच्छदपलायनमाह- उत्सृष्टमिति उत्सृष्टमाधोरणधोरणीमहा-प्रतिक्रियाभिनितमा मतङ्गजम् / तत्राम्रकुजेऽधिगतं निरीक्ष्य स परिच्छदोऽस्याः सकलः पलायितः // 11 // आधोरणानां हस्तिपकानां "आधोरणाः हस्तिपकाः" इति "धोरणी श्रेणी" इति चाभिधाभचिन्तामण्युक्तेः / या धोरण्यः गजसाधनक्रियाः ताभिः तद्रपाभिः महतीभिः प्रतिक्रियाभिः प्रतीकारक्रियाभिः नितमां सर्वथा उत्सृष्टं रहितम् हस्तिपकवर्जितमित्यर्थः, मतङ्गजम् तत्राम्रकुजेअधिगतमागतं निरीक्ष्यास्याः ससकलः परिच्छदः परिजनादिः पलायितः / / 91 // किन्तु सा न पलायितेत्याह- स्तम्बरमे इति-- स्तम्बरमे तत्र समापतत्यपि स्थिति वितेने भयविह्वलापि सा। . आनन्दसंपादनबद्धविभ्रमा सुधांशुलेखेव विधुन्तुदागमे // 92 // तत्रामकुञ्ज स्तम्बेरमे गजे समापतति समागते सत्यपि धावन्नागच्छत्यपि सति सा कनी भयबिह्वलाऽपि विधुन्तुदस्य राहोरागमे ग्रसनसमये सुधांशुलेखा चन्द्रलेखा इव आनन्दस्यालादस्य सम्पादने बद्धः कृतः आसक्तो वा विभ्रमो विलासो यस्याः सा तादृशी सति स्थिति वितेने ततो गजभयान्न पलायितवती // 92 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy