SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 283 तत्रोद्याने यक्ष वर्णयति-यक्ष इति-- यक्षस्तदुधानविभूषणं परं स शङ्खपालोऽस्त्यभिधानतः श्रुतः / पुंसां यदर्चाऽपि विनिर्मिता हृदा करोति कल्पद्रुमवत् समीहितम् // 85 // तस्य शङ्खपुरस्य उद्यानस्य विभूषणमिव विभूषणम् परं उत्कृष्टम् महद्यथास्यात्तथा अभिधानतः शङ्खपाल इति श्रुतः प्रसिद्धः यक्षोऽस्ति यस्य शङ्खपालस्य यक्षस्य हृदा मनसाऽपि विनिर्मिता कृता अर्चा पूजा पुंसां कल्पद्रुमवत्समीहितं करोति // 85 // अथ तत्रोत्सवे कन्यादर्शनमाह-अवाजिष मिति-- अत्राजिषं तस्य महोत्सवेऽन्यदा, समं समग्रैः पुरवासिभिर्जनः। एकां कनी तत्र सखे ! व्यलोकयं रसालशालान्तरवर्तिनीमहम् // 86 // अन्यदैकदा, तस्य शङ्खपालयक्षस्य महोत्सवे समग्रैः पुरवासिभिर्जनैः समं सह तत्रोद्याने अवाजिषमगमम् सखे ! तत्र पुरवासिजनसमूहे उद्याने अहं कामपालः एकां रसालशालस्याम्रवृक्षस्य अन्तरे व्यवधाने वर्त्तते इत्येवंशीलां रसालवृक्षव्यवहिताम् कनी कन्यां व्यलोकयम् // 86 // अथ स्वस्य कामवशत्वमाह-शूलीति शूलीति नाम्ना दयितस्य धूर्जटेः प्रकोपभावेन पृथग् व्यवस्थिताम् / - गौरीमिवैतामवलोक्य मानसं मनोभुवा पञ्चशरैर्ममाऽऽहतम् // 8 // ... दयितस्य प्रियस्य धूर्जटेः शिवस्य शूली त्रिशूलधर इति नाम्ना हेतुना, तादृशनाम्ना हिंसा• सम्बन्धावगतेरिति भावः प्रकोपभावेन कोपेन पृथग् शिवं परित्यज्यान्यत्र व्यवस्थितामवस्थिताम् गौरी पार्वतीमिव एतां कनीमवलोक्य मम मानसं मनोभुवा कामेन पञ्चभिरेव शरैः पौष्पैः स्वायुधैः कृत्वा आहतम् कामातुरो जात इत्यर्थः // 87 // अथ तस्या अपि स्वस्मिन् रागमाह श्रुत्वेति श्रुत्वा सखीभ्यो मम नाम सा श्रुतं प्रदर्शयन्ती प्रियतामिवान्विताम् / कपूरपूरेण समं ससंमदा सखीकरणाऽर्पयति स्म वीटकम् // 88 // सा कनी सखीभ्यः सकाशात् श्रुतं प्रसिद्धं मम नाम श्रुत्वा अन्विताम् सम्बन्धिताम् प्रियता प्रेमेव प्रदर्शयन्ती ससंमदा सहर्षा सती सखीकरेण कृत्वा कर्पूरपूरेण समं कर्पूरयुक्तं वीटकं ताम्बूलमर्पयति स्म, साऽपि मदनुरक्ता जातेत्यर्थः / / 88 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy