________________ mAAAAAAAAAAAAAAAAAAAAANAW 252 श्रीशान्तिनाथमहाकाव्यम् अष्टादश सर्गः जीवन्नरो भद्रशतानि पश्येदित्याह-पतादृशीमिति एतादृशीं माप्तदशां कथञ्चन, स्वजीवितं भद्र ! मयाऽपि धारितम् / स्वाभीष्टलाभाय कदाऽपि जीवता नरेण कल्याणमवाप्यते यतः 181 // भद्र ! मया आगन्तुकेन पुरुषेणापि एतादृशीं त्वदुक्तप्रकारां दशामवस्थां प्राप्य स्वीवित कथञ्चन कष्टं सोढाऽपि धारितम् न तु. त्यक्तम्, तत्र हेतुमाह--यतः स्वाभीष्टलाभाय जीवता नरेण कदाऽपि कल्याणमवाप्यते, एवेति शेषः // 81 // भथ स्वनामादि कथयति-श्रीति श्रीकामपालोऽभिधयाऽपि कृत्तिका-पुरस्थलोकस्तुतवाणिजाग्रणीः / श्रीकामपालः स्ववपुष्टरश्रिया न कामपालस्तरसाऽस्मि केवलम् // 82 // .. कृतिकापुरस्थः लोकस्तुतः वाणिजाग्रणीः अभिधया कामपालः स्ववपुष्टरस्य निजोत्तमवपुषः श्रिया लक्ष्म्या कृत्वा श्रीकामपालः श्रियाः कामपालस्य च पालकः, अस्मि, केबलम् तरसा वेगेन कृत्वा कामपालः इष्टसाधकः नास्मि, त्वमिव सकलेतरगुणयुक्तोऽभिमतसिद्धिपराङ्मुखश्चास्मीत्यर्थः // 82 // मथ कामपालः स्वस्य विदेशयात्रामाह-अर्थस्येति अर्थस्य सर्वोऽपि तनोति गौरवं न मानवस्येति विचिन्त्य चेतसि / अर्थार्जनायै विषयान्तरं युवा परेधुरागारत एव निर्ययौ // 83 // सर्वोऽपि जनोऽर्थस्य धनस्य गौरवमादरादि तनोति करोति न मानवस्य धनहीनस्य मानवमात्रस्येतीत्थं चेतसि विचिन्त्य परेधुरेकदा युवाऽहं कामपाल: आंगारतः स्वगृहतः अर्थार्जनायै धनोपार्जनायैव विषयान्तरं देशान्तरं प्रति निर्ययौ निर्गतः // 83 // अथ स्वस्य शनपुरप्राप्तिमाह-देशान्तरमिति देशान्तरं देशत एव पर्यटन्, सरोवराद् हंस इवाऽपरं सरः। शखोज्ज्वलः शङ्खपुरं पुरं गतः, परिस्फुरन्मानसवासवासितः // 84 // देशतः एकस्माद्देशाद्देशान्तरमन्यं देशं हंसः सरोवरादपरं सर इव पर्यटन् भ्रमन्नेव परिस्फुरता उदारेण मानसवासेन मनोवृत्त्या वासितः महत्त्वाकाङ्गिचित्तः, हंसपक्षे च मानससरोवरवासपुष्टः, शङ्ख इव उज्ज्वल: विशुद्ध चारित्रः, अथ च धवलः शङ्खपुरं पुरं गतः प्राप्तः श्लेषमूलोपमाऽलङ्कारः // 84 //