________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 281 स्वस्कृतो मरणान्तगयो न मह्यं रोचते इत्याह कान्तेति - कान्तावियोगापगमे निवन्धनं वितन्वतो मृत्युमसंशयं मम तत्कण्ठपाशस्य विसूत्रणात् त्वया किमन्तरायः प्रसभं विनिर्ममे ? // 77 // कान्तायाः स्वप्रियायाः वियोगस्योपचाराद्वियोगजन्यदुःखस्यापगमे निवारणे निबन्धनं हेतुभूतमसंशयं निश्चितं मृत्यु वितन्वतः साधयतः मम तस्य कण्ठपाशस्य मरणसाधनगलबन्धनस्य विसूत्रणाच्छेदनात् त्वया अज्ञातेन पुरुषेण प्रसभं हठात्किम् अन्तरायो विध्नो विनिर्ममे कृतः: नेतयुक्तमित्यर्थः वियोगजन्यदुःखस्य मरणमपेक्ष्याधिकत्वादिति भावः // 77 // अथ तयोः प्रश्नप्रतिप्रश्नमाह केति का नाम कान्ता विरहः कथं तये-ति पृष्ट एतेन वसन्त एव तत् ? आवेद्य तस्मै निखिलं यथास्थितं मनागसातं गमयाम्बभूव सः // 78 // एतेनागन्तुकेन पुरुषेण का नाम कान्ता त्वप्रिया, तया प्रियया, कथं केन तथा हेतुना विरह इतीत्थं पृष्टः वसन्तः तस्मै पुरुषाय तत्कान्तादि यथास्थितं यथार्थ निखिलमेवावेद्य कथयित्वा वसन्तदेवः मनाक्किञ्चिदसातं दुःखं गमयाम्बभूव जहौ, दुःखस्यान्यस्मै कथनात्तनूभाव इति भावः // 78 // अथ पुनः पुरुषोक्तिमाह-तदिति. तद् दुःखमीदृग् विनिशम्य रम्यधीः पुनर्वभाषे पुरुषोऽप्यनिष्ठुरम् / त्वं दुःखितो यद्यपि वर्तसे तमां तथाऽपि तेऽहं न च जीवितोज्झनम् // 79 // तत्तस्य ईटगुक्तप्रकारं दुःखं विनिशम्य रम्यधीः सुबुद्धिः पुरुषोऽपि अनिष्ठुरम् मधुरं यथास्यातथा पुनर्बभाषे, किमित्याह- त्वं वसन्तदेवः यद्यपि दुःखितो वर्ततेतमामतिशयेन दुःखितोऽसि, तथापि दुःखातिशये सत्यपि ते तव जीवितोज्झनम् प्राणत्यागः न च नैव अहँ युक्तम् // 79 // प्राणत्यागायोग्यत्वे उपपत्तिमाह-इष्टार्थेति इष्टार्थसंसाधनकर्मकर्मठा न सन्त्युपायाः किमु भद्र ? भूरिशः ! व्यापद्यसे तत् किमहो ! निरर्थक विपत्तिरेवं भविता हि दुर्गतौ // 8 // भद्र ! इष्टार्थस्य संसाधनकर्मणि कर्मठाः निपुणाः समर्था वा भूरिशः बहव उपायाः किंतु न सन्तिः अपि तु सन्त्येव, अहो इति खेदे, तत्ततः उपायास्तित्वे. किम् निरर्थक वृथा व्यापद्यसे म्रियसे? न मर्त्तव्यमित्यर्थः सकलोपायवैफल्येऽपि आत्महत्या अयुक्तैवेत्यत आह-हि यतः एवमात्महत्यातः दुर्गतौ नारकादिगतौ विपत्तिर्भविता भविष्यति // 8 // . शा. 36