________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदश सगे। 280 __ चेतनाधनः धीमान् स वसन्तदेवः स्वचित्तेन एवमुक्तप्रकारं विचित्य शोकभाक् सशोकः सन् अशोकशालस्याशोकवृक्षस्य समुच्चायाः शाखिकायाः अल्पशाखास्तले गले स्वकण्ठे स्वयमात्मनैव निजप्रावरणेन त्वोत्तरीयेण पाशमसूत्रयबद्धवान् // 73 // अथ तत्र पुरुषकृतत्तन्निवारणमाह पद्धोममिति-- बद्धोद्यमं वीक्ष्य तमाशुमृत्यवे नृकजरःकश्चिदुपेत्य कुजतः / आचष्ट मा साहसमातथा वृथा भवादृशामीदृशमा विगर्हितम् // 74 // तम् वसन्तदेवम् मृत्यवे प्राणत्यागार्थ बद्रोद्यमं कृतप्रयासं वीक्ष्य कश्चिन्नृकुञ्जरः पुरुषश्रेष्ठः कुञ्जतः लतागुल्मतः आशु उपेत्यागत्य आचष्ट जगौ, किमित्याह साहसमविमृश्यकारित्वं वृथा निष्फलं मा आतथाः कृथा, आ इति खेदे, भवादृशामुत्तमानाम् ईदृशं बन्धनादिनाऽऽत्मघातः विगर्हित्तम् निन्दितम् आत्मघातो हि पामरजनकृत्यभिति भवान् ततो निवर्ततामिति भावः // 7 // अथ तस्य पाशच्छेदमाह-आदायेति आदाय तीक्ष्णारिकां स्वपाणिना विदार्य तस्याशु स पाशमचिवान् / भद्राकृते! युक्तमिदं न भद्र! तेन पातकं ह्यात्मविघाततः परम् // 75 // स पुरुषः स्वपाणिना तीक्ष्णां पाशकर्तनसमथीं क्षुरिकामादाय तस्य वसन्तदेवस्य पाशं गलबन्धनमाशु विदार्य च्छित्त्वा ऊचीवान् , किमित्याह-भद्राकृते ! सौम्य! भद्र! ते तदेवं पाशबन्धनं न युक्तम् अनुचितम्, तत्र हेतुमाह-हि यतः आत्मविघाततः आत्महत्यातः परमधिकं पातकं न अस्तीति शेषः // 75 // अथ वसन्तोक्तिमाह ऊचे वसन्तोऽपि तमीदृशीं गिरं ममाऽऽकृतेः संमदमादधासि किम्? / पचेलिमं प्रेक्ष्य तदिन्द्रवारुणंको नाम माधुर्यमृते प्रमोदते ? // 76 // वसन्तो वसन्तदेवोऽपि तं पुरुषं प्रतीदृशीं गिरं वाणीमूचे, ईदृशीमिति किमित्याह मम वसन्तदेवस्य आकृतेः स्वरूपात् सौन्दर्य वीक्ष्येत्यर्थः, किम् संमदं हर्षमादधासि प्राप्नोषि, अन्तरवीक्ष्य बहिः स्वरूपमात्रतः संमदो न युक्तः इत्यर्थः / तत्र दृष्टान्तमाह - तत्प्रसिद्धमिन्द्रवारुणं अन्तःसारशून्य बहिरेव मनोहरं फलविशेषं पचेलिमं पक्वं वीक्ष्य माधुर्यमृते मधुरतां विना को नाम प्रमोदते? न कोऽपि प्रमोदते इत्यर्थः / बहिर्मनोहरमपि तत्फलं माधुर्याभावान्न मोदाय, तथाऽह. मपि सुन्दरोऽपि अन्तरतिदुःखितत्वात् शोकायैव न तु स्तुतये इत्यर्थः // 76 //