________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 279 संयोगसम्बन्धं परस्परसङ्गमम् विधित्सतोः विधातुमिच्छतोस्तयोः केशरावसन्तदेवयोः सतोः कचित्कस्मिंश्चित्तत्परे उत्कृष्टे उपाये सङ्गमसाधने अनुदिते अप्राप्ते एव सति अन्यदा प्रातः जयन्तिजामि जयन्तिदेवस्वसारं केशरां परिणेतुम् जन्ययात्रया वरातिना समागम्यत // 69 // अथ वसन्तचिन्तामाह-श्रुत्वेति· श्रुत्वा वसन्तोऽपि तदात्मनो गृहाद् निरीय गत्वा कचनाऽपि तत्क्षणात् / उधान एको विरहोपतापितस्ततान चिन्तामिति चेतसाऽऽकुलः // 7 // वसन्तो वसन्तदेवोऽपि तज्जन्ययात्राऽऽगमनं श्रुत्वा आत्मनः स्वस्य गृहान्निरीय निर्गत्य तत्क्षणात् क्वचनाऽपि उद्याने एक एकाकी एव गत्वा विरहोपतापितः अत एव आकुलः व्यग्रः चेतसा इति वक्ष्यमाणप्रकारां चिन्तां ततान चकार // 70 // तच्चिन्तामेवाह-जाते इति जाते विवाहेऽननुरूप ईदृशे विपत्स्यते निश्चितमेव केशरा / सीमन्तिनीनां मनसोऽसमी हितं मनागपि माणवियोजनं यतः // 71 // ईदृशे भाविनि अननुरूपे अयोग्ये विवाहे जाते सम्पन्ने सति निश्चितमेव केशरा विपस्यते मरिष्यति, तथैव प्रतिज्ञातत्वादिति भावः ननु कदाचित्प्रतिज्ञाभङ्गोऽपि सम्भाव्यते इति चेत्तत्राह-यतः सीमन्तिनीनाम् स्त्रीणाम् मनागीषदपि मनसोऽसमीहितं स्वानभिमतं कार्य प्राणवियोजनम् प्राणवियोगजनकमेव, भवतीति शेषः स्त्रियः स्वासमीहितं न सहन्ते किन्तु नियन्ते एव तथा स्वाभाव्यादिति भावः // 71 // अथ स्वकर्त्तव्यमाह-तामिति तां प्रेमकाष्ठां प्रतिपद्य तादृशी, विपद्यते यावदसौ न केशरा / विपद्य तां तत्पथमं प्रदर्शये न मादृशाः पृष्ठचराः स्युरीदृशाः // 72 // यावदसौ मत्प्रिया केशरा तां तादृशीं प्रेमकाष्ठां प्रेमावस्थां प्रतिपद्य न विपद्यते तावत्ततः प्रथमं प्रागेव विपद्य मृत्वा तां केशरां प्रदर्शये, किमित्याह- मादृशाः ईदृशाः स्वप्रियातः प्रागेव प्राणवियोगकर्तारः पृष्ठचराः अनुसारः न सन्तीतिशेषः // 72 // अथ मरणार्थ वसन्तदेवस्य स्वोदबन्धनमाह-एवमिति एवं स्वचित्तेन विचिन्त्य चेतना-धनो निजप्रावरणेन शोकभाक् / सोऽशोकशालस्य समुच्चशाखिका-तले गले पाशमसूत्रयत् स्वयम् // 73 //