________________ 278 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः / केशरा आशुशुक्षणेरग्नेः साचिव्यं साहाय्यमासाद्य प्राप्य क्षणाद् भवन्तं वसन्तदेवं दयितीकरोमि पतिकरोमि, त्वया समं विवाहाभावे अग्नौ प्रविश्य प्राणांस्त्यक्ष्यामि इति भावः अत्र दैवमिति विशेष्यस्य क्लीबलिङ्गस्य प्रमन्युरिति पुंल्लिङ्गविशेषणं न्याय्यम्, नपुंसकत्वे च सन्धौ छन्दोहानिरिति मया दैवमित्यस्य स्थाने विधिरिति पाठ आदृतः, एवं च च्छन्दोऽपि समञ्जसमेवेति ध्येयम् // 65 // अथ वसन्तदेवप्रतिवचनमाह-एतदिति एतत् समाकर्ण्य विवर्ण्यसद्गुणो, वसन्वदेवोऽपि जगाद तां प्रति। तत्स्वप्नसंदर्शनमेव जातुचिद्, निरर्थकं नैव भवेत् सदुक्तिवत् // 66 // एतप्रियङ्करोक्तं समाकर्ण्य विवर्यः प्रशंसनीयः सद्गुणो यस्य स तादृशः प्रशस्यसद्गुणवान् वसन्तदेवोऽपि तां प्रियङ्करां प्रति जगाद, किमित्याह- तत्स्वप्नसंदर्शनम् पूर्वदृष्टस्वप्नः सतामुक्तिवत् जातुचिदेव कदाचिदपि निरर्थकं मिथ्या नैव भवेत्, रात्रिशेषे दृष्टो हि स्वप्नः सफलो भवतीति भावः // 66 // अथ स्वभिसन्धिमाह-२षेति एषा प्रतिज्ञा मम च प्रियङ्करे ! निधीयतां कर्णपथे त्वयाऽधुना / यत् केशरामेव यथाकथश्चनोवहेऽन्यथा यामि यमस्य मन्दिरम् // 67 // प्रियङ्करे ! मम वसन्तदेवस्य एषा कथ्यमाना च प्रतिज्ञा अधुना त्वया प्रियङ्करया कर्णपथे निधीयताम् श्राव्यतामित्यर्थः का सा प्रतिज्ञेत्याह- यत्केशरामेव यथा कथञ्चन केनाप्युपायेनो. द्वहे परिणये, अन्यथा केशराया अपरिणये यमस्य मंदिरं यामि प्राणांस्त्यस्यामीत्यर्थः // 67 // अथ ततः प्रियङ्कराया गमनमाह-आकर्येति आकर्ण्य तद्वाचमितीष्टशासना, प्रियङ्कराऽगादुपकेशरं मुदा / तद्वाक्यपीयूषभरेण केशरामथापि संसिच्य चकार निर्वृताम् // 68 // इत्युक्तप्रकारं तस्य वसन्तदेवस्य वाचमाकर्ण्य इष्टशासना प्राप्ताज्ञा सती प्रियङ्करा मुदा सहर्षम् उपकेशरम् केशरायाः समीपमगात् अथापि ततश्च तस्य वसन्तदेवस्य वाक्यमेवातीष्टत्वा. स्पीयूषं तद्भरेण संसिच्य, वसन्तदेववाक्यानि कथयित्वेत्यर्थः / केशरां निर्वृतां सुखितां चकार // 68 // अथ केशरां परिणेतुं जन्ययात्रागमनमाह-संयोगेति-- संयोगसंबन्धविधित्सतोस्तयोरुपाय एवानुदिते कचित् परे / प्रातः समागम्यत जन्ययात्रया जयन्तिजामि परिणेतुमन्यदा // 69 / /