SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ 277 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / स्वस्य मातृपितृपारतन्त्र्यमाह कोनामेति - को नाम मच्चित्तविवोधदुविधौ, विवेष्टमानौ पितरौ निवारयेत् ? संकल्पवृत्या मयका पतीकृतस्त्वमेव नाथाऽपरथा न बुध्यताम् // 62 // मच्चित्तस्य मम केशरायाश्चित्तस्य उपलक्षणत्वादाशयस्य विबोधे ज्ञाने दुर्विधौ दुर्विदग्धौ अत एव विचेष्टमानौ ममाशयविरुद्धं चेष्टमानौ पितरौ मम मातापितरौ को नाम निवारयेत् मदनभिमतक्रियातः पराङ्मुखौ कुर्यात् न कोऽपि तादृशोऽस्ति यस्तौ निवारयेदित्यर्थः एवञ्च परवशाहमितिभावः तथापि मम मनस्तु त्वय्येवेति आह नाथ ? स्मामिन् मयका मया केशरया संकल्पवृत्या मनसा त्वं वसन्तदेव एव पतीकृतः अपरथा नेयं मदनुरक्तेत्येवमन्यथा न बुध्यताम् मन्यताम् // 62 // स्वस्य तदेकतानत्वमाह चेदिति चेत् पद्मबन्धुं विजहाति पद्मिनी, विभावरी चन्द्रमसं कदाचन / गौरी महेशं कमला त्रिविक्रम, तदाऽहमन्यं पियमाद्रिये प्रिय ! // 63 // पद्मिनी कमलिनी चेद्यदि पद्मबन्धुं सूर्य विजहाति, प्रियत्वेनेति शेषः, विभावरी रात्रिः कदाचन कदाचिच्चन्द्रमसम्, विजहाति प्रियत्वेन, गौरी पार्वती महेशम्, कमला लक्ष्मीः त्रिविक्रमं विष्णुं विजहाति प्रियत्वेन, प्रिय तदा तादृशविपरीतकाले अहं केशरा अन्यं त्वदन्यं प्रियमाद्रिये स्वीकुर्वे पग्निन्यादेः सूर्यादिरिव मम त्वमिति नाहं त्वत्तोऽन्यं वरीतुं समर्थाऽस्मीति भावः // 63 / / नैतद्वचनमात्रम्, किन्त्वग्रतो यथार्थ भवितेत्याह इतीति इत्यार्यपुत्रेण सदा हृदन्तरे, निवेशनीयं हृदयालुना त्वया / ... विज्ञास्यते मतिपय एव वाऽऽयतौ, मदाश्रवस्याऽपि न सत्यतां कथम् ? // 64 // इति हेतोः आर्यपुत्रेण हृदयालुना सुहृदयेन त्वया वसन्तदेवेन इति मदुक्तं सदा हृदन्तरे मनसि निवेशनीयम् धारणीयम् मत्प्रियो भवान् वसन्तदेवः आयतावुत्तरकाले वा मदाश्रवस्य त्वमेव मम प्रियः पतिरिति प्रतिज्ञायाः " प्रतिज्ञानं नियमाश्रवसंश्रवाः" इत्यमरः सत्यतां यथार्थतां कथं न विज्ञास्यते ? अपि तु विज्ञास्यत एव, नाहं मृषाभाषिणीति भावः // 64 // ननु अन्यस्मिन् वृते कथं त्वदुक्तं सत्यं भवेदिति चेत्तत्राह दैवमिति दैवं कदाचिद् भवता समं यदि, प्रमन्युरुद्वाहयते न मां प्रिय ! / साचिव्यमासाद्य तदाऽऽशुशुक्षणेः, क्षणाद् भवन्तं दयितीकरोम्यहम् // 65 // __प्रिय ! यदि कदाचित्कुतोऽपि हेतोः प्रमन्युः प्रवृद्धरोषः, अभिमतविपरीतपरिणामप्रदत्वा दितिभावः विधिः भाग्यम् भवता वसन्तदेवेन समं मां केशरां न उद्वाहयते परिणाययति तदा अहम्
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy