________________ 276 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः। * तयोः केशरावसन्तदेवयोः मिथः परस्परं युगपत्सहैव अन्योन्यं सन्देशनस्य वाचिकस्य देशने प्रेषणे उत्कयोरुत्सुकयोः प्रियङ्कराया अभ्यागमनकांक्षिणोः प्रियङ्करायास्तयोर्मध्ये विश्वास्यदूतीभावादित्यर्थः / संवर्धमानः अनुपमोऽनुरागो ययोस्तयोः तादृशयोः कियान अनेहा दिवसो ययौ व्यतीयाय / ! 57 // अथ पञ्चनन्दिगृहे उत्सवमाह श्रीति श्रीपञ्चनन्दीभ्यनिकेतनेऽन्यदा, वसन्तदेवः स्वगृहस्थितोऽशृणोत् / तूर्यस्वनं नागरनायिकाजनं, समाहृयन्तं रभसादिवोत्सवे // 58 / अन्यदा एकदा वसन्तदेवः स्वगृहस्थित एव श्रीपञ्चनन्दीभ्यस्य निकेतने गृहे तूर्यस्वनं वाद्यध्वनिम् उत्सवे रभसात् हठात् नगरसमाह्वयन्तमिवोपलक्षितम् अशृणोत् // 58 // .. अथ वाद्यहेतुमाह श्रीकान्येति श्रीकान्यकुब्जस्थमुदत्तसूनवे, वरादिदत्ताय दिदेश केशराम् / यत्पञ्चनन्दी तत एव वाद्यते, सुतूर्यमित्येत्य तदाऽऽण कोऽपि ना // 59 // तदा वाद्यध्वनिकाले कोऽपि ना पुरुष एत्यागत्य पञ्चनन्दी श्रीकान्यकुब्जस्थस्य कान्यकुब्जदेशस्थस्य सुदत्तस्य तदारव्यस्य सूनवे पुत्राय वरादिदत्ताय वरदत्ताय तदारव्याय केशरां दिदेश . दातुमियेष, ततो हेतोरेव सुतूर्य सुवा वाद्याते इतीत्थमाण बभाण // 59 // अथ तस्य तच्छुत्वा मूर्छामाह तस्येति - तस्याननादित्यक्गम्य मूच्छितोऽ,पतद् महावातहतद्रुवच्च सः / प्रस्थापिता केशरया प्रियङ्करा, तदा तमाचासयदेत्य भाषितैः // 6 // तस्य पुरुषस्याननान्मुखात्सकाशादित्युक्तप्रकारमवगम्य ज्ञात्वा स वसन्तदेवश्च मूर्छितः महावातेन हतद्रुवत् पराहतवृक्षवदपतत् तदा तस्मिन् काले केशरया प्रस्थापिता प्रेषिता प्रियङ्करा एत्यागत्य भाषितैः वचनैः कृत्वा तं वसन्तदेवमाश्वासयत् / / 60 / / अथ तदाश्वासनमेवाह त्वामिति-- त्वां केशरैवं वदतीन्दुमण्डला, नना कृथा मा हृदि खेदमात्मनः / प्रक्रम्यमाणं जनकेन मामकं, निशम्य पाणिग्रहणं प्रिय ! प्रभो ! // 60 // इन्दुमण्डलानना केशरा त्वां वसन्तदेवमेव वदति, एवमिति किमित्याह प्रिय ! प्रभो ! स्वामिन् ? जनकेन मम पित्रा पञ्चनन्दिना प्रक्रम्यमाणं विधीयमानं मामकं पाणिग्रहणमन्येन सार्धमम् विवाह निशम्य स्वस्य आत्मनः हृदि खेदं मा कृथाः // 61 //