________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ततस्तदनन्तरं भूयोऽपि पुनरपि प्रियंकरा प्रोवाच, किमित्याह--प्रियंवदा मिष्टभाषिणी कनी कन्या केशरा ते तव, त्वामित्यर्थः, सम्बन्धसामान्ये षष्ठी, स्वमात्मीयम् स्वपतिमित्यर्थः, अकल्पयत् कल्पितवती, इदं स्वकीयं पाणिग्रहणं रूपं केशरापाणिग्रहणरूपं प्रयोजनमभीष्टं संजातमेव, इत्येतदसंशयं निश्चितमवेहि // 53 // | अथ वसन्तोक्तिमाह ऊचे इति ऊचे वसन्तोऽपि शगु प्रियङ्करे ! तया समं दर्शनमादधे विधिः संयोगमापादयिता स एव मे, कृतं न नीचोऽपि यतो विलुम्पति // 54 // वसन्तो वसन्तदेवोऽप्यूचे, किमित्याह-प्रियङ्करे ? शृणु किमित्याह विधिः भाग्यमेव तया केशरया सह समं दर्शनमादधे चकार, भाग्यादेव तां दृ वानस्मीत्यर्थः स विधिरेव मे मम तया समं संयोगं विवाहरूपं सम्बन्धमापादयिता कर्ता, तत्र हेतुमाह यतः नीचः निकृष्टप्रकृतिः पामरादिरपि कृतं स्वयं विहितं न विलुम्पति नाशयति / कथं तर्हि सकलकार्यसाधारणकारणं भाग्यमेव स्वकृतं दर्शनादि सम्बन्धायोजने न विलुम्पेदिति भावः // 54 // अथ प्रियङ्करासत्कारमाह विश्वासेति-- विश्वासरूपां कलयन्निमामय, जयन्तिजामेरपरां शरीरिणीम् / स्वाकूतमावेद्य विधाय सक्रियां, विसजयामास सदा प्रियङ्कराम् // 55 // ___ अयं वसन्तदेवः जयन्तिजामेः जयन्तिदेवस्वसुः केशरायाः “जामिः स्वसृकुलस्त्रियोः' इत्यमरः अपरामन्यां शरीरिणीम् मूर्त्तिमिवेमां प्रियङ्करां सदा विश्वासरूपां विश्वासास्पदां कलयन् जानन् स्वाकूतं स्वाभिप्रायमावेद्य निवेद्य सस्क्रियां सत्कारं विधाय विसर्जयामास // 55 // अथ केशराया रागवृद्धिमाह श्रीति श्रीकेशरायाः पुरतः प्रियङ्करा, यथा यथाऽऽगत्य निवेदयत्यसौ / तस्य प्रवृत्ति प्रणयानुवन्धिनी, ममज्ज सा प्रेमरसाम्बुधौ तथा // 56 // असौ प्रियङ्करा आगत्य श्रीकेशरायाः पुरतः तस्य वसन्तदेवस्य प्रणयानुबन्धिनीम् प्रीतिवर्धिकां प्रवृत्ति समाचारं यथा यथा निवेदयति तथा तथा सा केशरा प्रेमैव रसस्तस्याम्बु धौममज्ज प्रेमातिशयाऽऽप्लुताऽभूदित्यर्थः // 56 // अथ तयोः प्रेमसन्देशतः कालक्षेपमाह अन्योऽन्येति अन्योऽन्यसंदेशनदेशनोत्कयोः, प्रियङ्कराभ्यागमकांक्षिणोमिथः / संवर्धमानानुपमानुरागयोः, कियाननेहा युगवत् तयोर्ययौ // 57 / /