________________ 274 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः / अथ केशरायाः स्वप्नकथनमाह-स्वप्नमिति स्वप्नं प्रगे लब्धनिधानयुग्मवत् प्रियङ्करायाः पुरतो वभाण सा। तच्चित्तचैत्यं प्रति याऽधिदेवता तदग्रतो गोप्यमियं न चातुरी // 49 // प्रगे प्रभाते सा केशरा लब्धनिधानयुग्मवत् प्राप्तनिधिद्वयवत् स्वप्नं प्रियङ्करायाः पुरतोऽग्रतः बभाण ननु अन्यस्मै रहस्यकथनमनुचितमिति चेत्तत्राह- तस्याः केशरायाः चित्तमेव चैत्यं मन्दिरम् तत्प्रति तद्विषये या अधिदेवता अधिष्ठातृदेवतेव, तच्चित्तवृत्तिज्ञा, तदग्रतो रहस्यादि, गोप्यमप्रकाश्यमित्येतच्चातुरीबुद्धिमत्त्वं न अस्तीतिशेषः, स्वहृद्भावझे रहस्यं न किमपि भवतीति भावः // 49 // अथ पुरोहितस्य स्वप्नफलकथनमाह संपत्स्यते इति संपत्स्यते सर्वमिदं महाशये त्वया न कार्यः पुनरत्र संशयः। एतां गिरं माह हितः पुरोहितस्तदा तदासन्नचरोऽपि कश्चन // 5 // तदा प्रियङ्करां प्रति स्वप्नकथनकाले तदासन्नचरः तत्स्थानसमीपस्थः कश्चन हितः हितचिन्तकः पुरोहितोऽपि महाशये ! मनस्विनि! सर्वमिदं त्वया दृष्टः स्वप्नः सम्पत्स्यते तथैव भविष्यति, अत्रास्मिन् स्वप्नविषये त्वया संशयः पुनः न कार्यः अवश्यंभावित्वादिति भावः // 50 // अथ प्रियङ्कराकृतमनुमोदनमाह स्वप्ने नेति स्वप्नेन चाऽनेन सखि ! श्रुतीरया तथोपश्रुत्याऽप्यनया रयादपि / भावी वसन्तस्तव जीवितेशितेत्युवाच वाचं प्रति तां प्रियङ्करा // 51 // सखि ! अनेन त्वदृष्टेन स्वप्नेन अनया पुरोहितकथितया श्रुतीरया शास्त्रवाण्या तथा तादृश्या उपश्रुत्या किंवदन्त्या च रयादपि झटित्येव तव केशरायाः . वसन्तो वसन्तदेवः जीवितेशिता पतिर्भावीतीत्थं वाचं प्रियङ्करा तां केशरां प्रत्युवाच // 51 // . अथ वसन्तदेवस्य स्वप्नकथनमाह-स्वप्नमिति स्वप्नं वसन्ताय ततः प्रियङ्करा, प्रमोदसम्पूर्णेमनास्तमालपत् / __स्वस्वमसाम्येन वसन्तदेवकः, स सत्यमेवेदममन्यत स्वयम् // 52 // ततः अनन्तरम् प्रियङ्करा प्रमोदसम्पूर्णमनाः आनन्दनिर्भरमानसा सती तं केशराकथितं स्वप्नं वसन्ताय वसन्तदेवायालपत्कथितवती, स वसन्तदेवको वसन्तदेवः स्वयं स्वस्वप्नस्य साम्येन तुल्यतया हेतुना इदं स्वप्नं सत्यमेवामन्यत // 52 // अथ पुनः प्रियंकरावचनमाह-प्रोवाचेति प्रोवाच भूयोऽपि ततः प्रियङ्करा, प्रियंवदा ते स्वमकल्पयत् कनी / संजातमेवेदमवेद्यसंशयं, स्वकीयपाणिग्रहणप्रयोजनम् // 53 //