________________ an.wwwwwwww. आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 273 अयं वसन्तदेवः एतद् पुष्पादि प्रियया केशरया प्रेषितमिति विदन् जानन् अत एव वचसोऽपि अगोचरमत्यधिकं प्रमोदं वहन् प्राप्नुवन् प्रियङ्करायाः करवारिजन्मनः पाणिपद्मात् पुष्पाणि कक्कोलफलानि च आददे गृहीतवान् // 44 // अथ तत्कृतमुद्रिकादानमाह-दत्त्वेति दत्त्वा स तस्यै प्रमनाः स्वमुद्रिकां जगौ त्वया साध्विदमाहित खलु / ब्रूयाः पुनस्तामिति सर्वदैव मे प्रियाऽनुरूपं रचयेमनस्विनि ! // 45 // स वसन्तदेवः प्रमनाः हृष्टः सन् तस्यै प्रियङ्करायै स्वमुद्रिकां दत्त्वा जगौ, किमित्याह-- त्वया प्रियङ्करया खलु इंदं पुष्पादिदानादि साधु उत्तममाहितं कृतम् पुनः तां केशरामिति ब्रूयाः इतीति किमित्याह-- मनस्विनि ! सर्वदैव मे मम प्रियानुरूपं मम प्रियं यथा स्यात्तथा रचयेः कुर्याः // 45 / अथ प्रियङ्कराप्रवृत्तिमाह-गत्वेति गत्वा वरालापमसौ प्रियङ्करा तदैव तस्यै मुदिता न्यवेदयत् / आकर्ण्य तं साऽपि सकर्णवर्णिता मुदं मयूरीव घनवनिं दधौ // 46 // असौ प्रियङ्करा तदैव तत्कालमेव गत्वा मुदिता प्रसन्ना सती तस्यै केशरायै वरालापं प्रियभाषितं न्यवेदयत् , सकर्णेन धीमता वर्णिता प्रशंसिता सा केशराऽपि तं प्रियालापम् मयूरी घनध्वनि मेघशब्दमिवाऽऽकर्ण्य मुदं दधौ // 46 // __अथ केशरायाः स्वप्नमाह-स्वप्ने इति-- स्वप्ने तृतीयपहरे विवाहितं निशः स्वमालोकत केशराऽन्यदा / कान्तेन तेनाऽऽशयमध्यवत्तिना वसन्तदेवेन समं महौजसा // 47 // अन्यदा केशरा निशः रात्रेः तृतीये प्रहरे स्वप्ने तेन आशयमध्यवर्तिना हृद्गतेन महौजसा बलवता कान्तेन प्रियेण वसन्तदेवेन समं सह स्वमात्मानं विवाहितं कृतपरिणयं आलोकत दृष्टवती वसन्तेन मम परिणयो जात इत्येवं स्वप्नमदर्शदित्यर्थः // 47 // . अथ वसन्तदेवस्वप्नमाह-स्वजान्तरिति स्वप्नान्तरुद्वाहविधि व्यलोकयद् वसन्तदेवोऽपि तथा सहात्मनः / श्रीपञ्चनन्दीभ्यभुवा गुणाढयया तथाऽपि हर्षः समभूत्तयोर्महान् // 48 // वसन्तदेवोऽपि स्वप्नान्तः स्वप्ने श्रीपञ्चनन्दीभ्यभुवा श्रेष्ठिपञ्चनन्दिपुत्र्या गुणाढ्यया गुणवत्या तया केशरया सह आत्मनः स्वस्य उद्वाहविधि परिणयविधिं व्यलोकयत् , तथापि तथा च तयोः केशरावसन्तयोः महान् अतिदीर्घः हर्षः समभूत् / / 48 // 35